SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ । सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५० सम्यक्त्वाणुव्रतादी, इदं च पदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येकं योज्यते, तथा प्रतिपक्षजुगुप्सया मिथ्यात्वप्राणिवधायुद्वेगेन तथा परिणत्यालोचनेन अधिकृतगुणविपक्षभूता मिथ्यात्वप्राणातिपातादयो दारुणफला:, अधिकृतगुणा: वा सम्यक्त्वाणुव्रतादयः परमार्थहतव इत्येवं विपाकपर्यालोचनेन चशब्द: समुच्चय एवेति गाथार्थः । तथा तीर्थकरभक्त्या परमगुरुविनयेन तथा सुसाधुजनपर्युपासनया भावयतिलोकसेवया, चशब्दः समुच्चय एव, तथा उत्तरगुणश्रद्धया प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण, अणुव्रतेषु सत्सु महाव्रताभिलाषेणेति भावः । चशब्दः समुच्चय एव, अत्र सम्यक्त्वाणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युत्तरकाले सदा सर्वकालं भवति युज्यते यतितव्यम् उद्यमः कर्तव्य इति गाथाद्वयार्थः । अनन्तरोक्तोपदेशमेव फलदर्शनेन निगमयन्नाह-एवं० गाहा । एवमुक्तन्यायेन नित्यस्मृत्यादिना यत्नेन असन्नपि अविद्यमानोऽपि, संस्तु जात विशिष्यानि एव इति अपिशब्दार्थः, इमो त्ति अयं सम्यक्त्वपरिणामो विरतिपरिणामञ्च जायते भवति, जातश्च संपन्न: पुन: न पतति नापैति कदाचित् क्वचिदपि टिप्पणानि काले, ता इति यस्मादेवं तस्मादत्र नित्यस्मृत्यादिके प्रयत्ने बुद्धिमता धीमता अप्रमाद उद्यमः भवति वर्तते कर्तव्यः कृत्य इति गाथार्थः ॥" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ "तदप्रतिपाद(त)नार्थ चाप्रमादो विधेय इत्याह ग्रन्थकार:-तम्हा० गाहा । तस्मानित्यस्मृत्या अभिगृहीताणुव्रताविस्मरणेन बहुमानेन च सदन्तःकरणरूपेण भावेन अधिकृतगुणे प्रतिपन्नगुणे प्रतिपक्षा अधिकृतगुणापेक्षया हिंसादय: तेषां जुगुप्सा परिहारो द्रव्यतो भावतश्च स्वयमकरणम्, न तु हिंसादिप्रवृत्तानां निन्दा परविवादप्रसन्नात् तस्य च निषिद्धत्वात् कषायपरिकर्मादिषु, यथोक्तम्- 'परपरिवायंमि कए जइ नाम हवेज कज्जनिप्फत्ती । ता लोए सच्चसोएसु आयरो कस्स होज्जाहि ॥१॥"[ ]। परिणत्यालोचनेन च, परिणतेर्जीवाजीवस्वरूपानवस्थितलक्षणायास्तथाभावदर्शनेनावलोचनमवधारणम्, तेन च ॥ तित्थं० गाहा, तीर्थकरभक्त्या जिनपूजाकरणाभिलाषातिरेकरूपया सुसाधुजनपर्युपासनया च सद्गुर्वादिसेवया च उत्तरगुणश्रद्धया चाणुव्रतपालने सदा भवति यतितव्यम् ॥ एवं० गाहा, एवं यतमानस्य असन्नप्ययं प्राग देशविरतिपरिणामो जायते प्रादुर्भवति जातच न पतति कदाचित् नैव प्रतिपतति, तत् तस्माद् नित्यस्मृत्यादौ तदुपाये बुद्धिमता प्रेक्षावताऽप्रमादो यत्नातिशयो भवति कर्तव्यः करणीयमि(इ)ति" इति यशोभद्रसूरिविरचितवृत्तियुते पञ्चाशके पृ० १७-१८॥ पृ० ७५ पं० ९ । “सचित्तेत्यादि, सचित्तानां द्रव्याणां पुष्प-ताम्बूलादीनां विउसरणयाए व्यवसरणेन व्युत्सर्जनेन, अचित्तानां २५० Jain Education International Far Private Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy