SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २११ Jain Education International पृ० १० पं० १६ / तुलना - “अथ भूपतीनां शरीरस्थः शत्रुषड्वर्गो यथा भवति तथाह- अयुक्तितः प्रणीताः काम-क्रोध-लोभ माननद- हर्षाः क्षितीशानामन्तरङ्गोऽरिषड्वर्गः ||१|| अयुक्त्याsन्यायेन सेविताः सन्तः काम-क्रोध-लोभ- मान-मद-हर्षाः, एतेषां षण्णां वर्गः संघातोऽन्तरङ्गः शरीरस्थ: शत्रुषड्वर्गो वैरिलक्षणो ज्ञेयः । केषां ? क्षितीशानाम् । कोऽर्थः यच्छत्रवः कुपिता वंचिता एते इत्यर्थः । अथ यथा कामो दुरभिसन्धिर्भवति तदाह - परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः ||२|| परैरन्यैर्याः परिगृहीता वेश्यादयः, तथा या अनूढाः कुमारिकास्तासु विषये यः कामः स दुरभिसन्धिर्न सुखदो भवति । तथा च गौतमः अन्याश्रितां च यो नारीं कुमारीं वा निषेवते । तस्य कामः प्रदुःखाय बन्धाय मरणाय च ॥ १॥ [ ] अथ क्रोधो यथारिः संजायते तदाह- अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः ||३|| यः परस्य शत्रोः शक्तिं न जानाति आत्मनो वा विचारं न करोति तस्यापायस्य विनाशस्य हेतुः कारणं स क्रोधः । तथा च भागुरिः - अविचार्यात्मनः शक्तिं परस्य च समुत्सुकः । यः याति भूपालः स विनाशं प्रगच्छति ॥ १॥ [ ] अथ लोभो यथा भवति तदाह - दानार्हेषु स्वधनाप्रदानम् अकारणं परधनग्रहणं वा लोभः ॥४॥ यद् दानयोग्येषु न दीयते स लोभः कस्मात्?यतो वित्तक्षतिर्भवति स तावद् वित्तलोभः । तथा परधनं यच्चौर्यादिभिर्गृह्यते लोभः स एव । तथा चात्रि: - परस्वहरणं यत्तु तद्धनाढ्यः समाचरेत् । तृष्णयार्हेषु चादानं स लोभः परिकीर्तितः ॥१॥[ 1 अथ मानो यथा भवति तदाह- दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः ||५|| यो दुरभिनिवेशोऽव्यवहारो न शिष्टाचारः तस्य योऽसौ अमोक्षोऽपरित्यागः स मानः । तथा यथोक्ताग्रहणं वा मानः यथोक्तं शास्त्रे शिष्टैर्यथा प्रोक्तं तन्न गृह्यते स मानः । तथा च व्यासः - पापकृत्यापरित्यागो युक्तोक्तपरिवर्जनम् । यत् तन्मानाभिधानं स्याद् यथा दुर्योधनस्य च ॥१॥ [ ] अथ मदो यथा भवति तदाह - [ जाति- तालपत्रे ] कुलबलैश्वर्यरूपविद्यादिभिरात्माहंकारकरणं परप्रधर्षनिबन्धनं वा मदः ||६|| यच्चात्मना कुलेन बलेन वाप्यैश्वर्येण रूपेण विद्यया वा अहंकारकरणं अहंकारः क्रियते । अथवैतेषां पञ्चानामेकतमेनापि परस्यान्यस्य प्रधर्षणं क्रियते । निबन्धनं For Private & Personal Use Only विशिष्टानि टिप्पणानि २११ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy