________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२१०
प्राजापत्य: २, ।
पृ० १० पं० ७-११ ॥ “लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥ १२६ ॥ लोकापवादभीरुत्वं यतः कुतोऽपि लोकापवादान्मरणान्निर्विशिष्यमाणाद् भीतभावः । दीनाभ्युद्धरणादर उपलक्षणत्वाद्दीनानाथोपकारप्रयत्नः प्रकीर्तितः प्रज्ञप्तः ॥ १२६ ॥
सर्वत्र निन्दासन्त्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥। १२७ ।।
सर्वत्र जघन्यमध्यमोत्तमजनेषु निन्दासन्त्यागः परिवादापनोदः वर्णवादश्च प्रशंसारूप:, साधुषु सदाचारेषु जनेषु, आपदि व्यसने अदैन्यमदीनभावः विशिष्टानि अत्यन्तमतीव तद्वदापद्यदैन्यवत् सम्पदि विभवसमागमे नम्रता औचित्येन नमनशीलता ॥ १२७॥
टिप्पणानि
प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥१२८॥
प्रस्तावे भाषणावसर उपलब्धे, मितभाषित्वं मितहितभाषणशीलता, अविसंवादनं विसंवादवतः स्ववचनस्याकरणम् । तथा प्रतिपन्नक्रिया चेति प्रतिपन्नस्य व्रतनियमादेः क्रिया निर्वाहणं, इतिः पद (रि) समाप्तौ । कुलधर्मानुपालनं अविरुद्धस्वकुलाचारानुवर्तनम् ॥१२८॥ असद्वययपरित्यागः, स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ।। १२९ ।।
असद्व्ययपरित्यागोऽसतः पुरुषार्थानुपयोगित्वेनासुन्दरस्य व्ययस्य वित्तविनियोगरूपस्य परित्यागः, स्थाने च स्थान एव देवपूजानादौ एतत्क्रिया व्ययक्रिया सदा सर्वकालम् प्रधानकार्ये विशिष्टफलदायिनि प्रयोजने निर्बन्ध : आग्रहः, प्रमादस्य मद्यपानादिरूपस्य विवर्जनमुज्झनम् ||१२९॥ • लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि ॥ १३०॥
लोकाचारानुवृत्तिश्च बहुजनरूढाविरोधिलोकव्यवहारानुपालनरूपा, सर्वत्र स्वपक्षे परपक्षे च औचित्यपालनं समुचिताचाररूपम्, प्रवृत्तिर्हिते कुत्सिते कुलदूषणादौन नैव । इति: प्राग्वत् । प्राणैरुच्छ्वासरूपैः कण्ठगतैरपि गलस्थानप्राप्तैः, किं पुनः स्वभावस्थैरित्यपिशब्दार्थः ॥१३०||”इति वृत्तिसहिते योगबिन्दौ ||
पृ० १० पं० १५ । तुलना - " तस्मादरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत " इति कौटिलीयेऽर्थशास्त्रे सप्तमेऽध्याये ॥
Jain Education International
For Private & Personal Use Only
२१०
www.jainelibrary.org