________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२०९
एषां तु धाश्चत्वारो ब्राह्माधाः समुदाहृताः । साधारण: स्याद् गान्धर्वस्त्रयोऽधास्त्वत: परे । एषामष्टानां मध्ये चत्वारो धा: ब्राह्मप्राजापत्यार्षदैवाः । साधारणो गान्धर्वः न धो नाप्यधर्म्यः । अत: परे त्रयोऽप्यधाः , क्रयादपहरणादज्ञातसंगमाच्च । एषां विस्तरो दानापत्यफलं च भृगुसंहितायां व्याख्यातम् । विस्तरेण तत एवोपलब्धव्यम् ।" इति भाष्यसहितायां नारदसंहितायाम् ।
"विवाहसंयुक्तम् । विवाहपूर्वो व्यवहारः । कन्यादानं कन्यामलङ्कृत्य ब्राह्मो विवाहः । सहधर्मचर्या प्राजापत्यः । गोमिथुनादानादार्षः । अन्तर्वेद्यामृत्विजे दानाद् दैवः । मिथस्समवायाद् गान्धर्वः । शुल्कादानादासुरः । प्रसह्यादानाद् राक्षस: । सुप्तादानात् पैशाच: । पितृप्रमाणाश्चत्वारः । | विशिष्टानि पूर्वे धाः , मातापितृप्रमाणाः, शेषाः । तौ हि शुल्कहरौ दुहितुः । अन्यतराभावेऽन्यतरो वा ॥” इति कौटिलीयेऽर्थशास्त्रे ।
टिप्पणानि "विवाहसंयुक्तस्य प्रथमं निरूपणे हेतुं निर्दिशति- विवाहपूर्वो व्यवहार इति । व्यवहार इति जातावेकवचनं, सर्वे व्यवहारा: विवाहमूला: । विवाहपूर्वत्वं चोपपादितम् । विवाहभेदांस्तल्लक्षणप्रदर्शनपूर्वमाह- कन्यादानमिति । कन्यामलङ्कृत्य यत् तस्याः प्रदानं, स विवाहो ब्राह्म इत्युच्यते । सहधर्मचर्येति सह धर्मश्चर्यतामित्येतावदुक्त्वा समन्त्रकं यत् कन्या दीयते स प्राजापत्याख्यः । गोमिथुनादानादिति वरसकाशाद् गोद्वयं गृहीत्वा यत् कन्या दीयते, स आर्षः । अन्तर्वेद्यामिति । यज्ञवेदिमध्ये स्थिताय ऋत्विजे यद्दीयते, सदैवः । मिथस्समवायादिति कन्यावरयोर्निजेच्छयान्योन्यसंयोगाद् गान्धर्वो विवाहो भवति । शुल्कादानादिति । आत्मार्थे कन्यार्थे च वराच्छुल्कं गृहीत्वा यत् कन्यादानं स आसुराख्यः । प्रसह्यादानादिति बलात्कारेण कन्याहरणाद् राक्षसविवाहो भवति । सुप्तादानादिति सुप्ताया हरणात् पैशाचाख्यो विवाहः । पितृप्रमाणा इति एतेष्वष्टसु विवाहेषु पूर्वे ब्राह्मादयश्चत्वारः पितृप्रमाणा: धाः पितृप्रमाणत्वाद् धर्मयुक्ताः । अन्ये त्वधा इत्यर्थसिद्धम् । मातापितृप्रमाणा इति माता पिता चेत्युभौ प्रमाणभूतौ येषां ते तथाभूताः, शेषाः गान्धर्वादयः। कस्मान्मातापितृप्रमाणकत्वमित्याह-तौ हीत्यादि। मातापितरौ हि शुल्कहरौ दुहितुः, कन्याशुल्कं गृह्णीत: । अन्यतराभावे अन्यतरो वा माता पिता वा शुल्कं हरति । एवं विवाहधर्म उक्तः ॥” इति कौटिलीयार्थशास्त्रस्य श्रीमूलायां टीकायाम् ।। पृ० ९ पं० ८ । अत्र मनुस्मृति-नीतिवाक्यामृतादिग्रन्थानुसारेणेयं वाक्ययोजनाऽस्माभिः विहिता, किन्तु I.K.L. प्रतिषु यथा अङ्का
२०९ लिखितास्तदनुसारेणात्र इदृशी वाक्ययोजना भवति-प्रदीयते- त्वं भवास्य महाभागस्य सधर्मचारिणीति १, विनियोगेन विभवस्य कन्याप्रदानात्
Jain Education International
For Private & Personal use only
www.jainelibrary.org