________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२०८
Jain Education International
वाचाऽनुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधि: स्मृतः || ३|३०|| ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याऽऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ||३|३१|| इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः || ३|३२|| हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३ ॥ ३३ ॥ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति। स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ||३|३४||" इति मनुस्मृतौ ॥
“अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः । ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ आर्षश्चैवाथ देवश्च गान्धर्वोऽथासुरस्तथा । राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः ॥ संख्याग्रहणं परिगणनार्थम् वर्णानां संभवत: संस्काराख्याः उपनयनस्थानीयाः । शेषो गतार्थः ।
सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलङ्कृताम् । सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते ॥ अष्टानां लक्षणमुच्यते । सत्कृत्य पूजयित्वा आहूय वरं तस्मै कन्यां दद्यात्, एष ब्राह्मः । आहूय कन्यादानमात्रम् । यथाविभवमलङ्कृता । सह पत्या धर्मं चरेत्युक्त्वा दद्यादित्येवमेष प्राजापत्यः ।
वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते ॥
वस्त्रयुगं च गोयुगं च दत्त्वा विवाहः । विवाहयेदिति त्वाप्रत्ययोपपत्तिः । एष आर्षः । अन्तर्वेद्यां तु यज्ञमध्ये ऋत्विजे कर्म कुर्वते, अलङ्कृत्येत्यादि सर्वत्र तुल्यं दद्यात् स दैवः ।
इच्छन्तीमिच्छते प्राहुर्गान्धर्वो नाम पञ्चमः । विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ॥
कामयमानां कामयमानाय दद्यात्, गान्धर्वो नाम सः । आसुरः शुल्कपणापणपरिच्छेदेन द्रव्यं गृहीत्वा दानमासुरः । दैवे तु गृहीत्वा द्रव्यं पिता तस्या एव दद्यात्, अपत्यविक्रयप्रतिषेधात् । इह तु विक्रय एव ।
प्रसह्य हरणादुक्तो विवाहो राक्षसः स्मृतः । सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ॥ प्रमथ्य हरणाद् राक्षसः । सुप्तां मत्तां वोपगच्छति, स पैशाचः । अधमः पापः सर्वेभ्यः ।
For Private & Personal Use Only
विशिष्टानि | टिप्पणानि
२०८
www.jainelibrary.org