SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २०६ योऽसौ विवाहस्त्रत (य) सन्तानं भवति तत् स्वकुलधर्मेण वर्तते इति न कदाचिद् व्यभिचरति । तथा च जैमिनिः - सुवर्णा (र्णा ?) कन्यका (कां?) यस्तु विवाहयति धर्मतः । सन्तानं तस्य शुद्धं स्यान्नाकृत्येषु प्रवर्तते ॥१॥ [ ] । अथ विवाहस्य लक्षणमाह - युक्तितो वरणविधानमग्निदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहः ||३|| एतद्गुणविशिष्टं यत् पाणिग्रहणं हस्तग्रहणं स विवाह उच्यते । युक्तितो वरणविधानम् अग्निदेव द्विजसाक्षिकं च यत् कुलक्रमेण कन्याया वरैर्वरणं संप्रदानं विधानं भवति । किंविशिष्टम् ? अग्निदेव द्विजसाक्षिकं प्रत्यक्षम् । तथा च भारद्वाजः - वरणं युक्तितो यच्च वह्नि-ब्राह्मणसाक्षिकम् । विवाहः प्रोच्यते शुद्धो योऽन्यस्य स्याच्च विप्लवः ॥ १॥ [ ] । अथाष्टविधस्य विवाहस्य लक्षणमाह - ब्राह्मो दैवस्तथैवार्ष: प्राजापत्यस्तथाऽपरः । गन्धर्वश्चासुरश्चैव पैशाचो राक्षसस्तथा ॥ १ ॥ अथ ब्राह्मविवाहस्य लक्षणमाह से ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते ||४|| स दैवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ॥ ५ ॥ तथा च गुरुः समाप्तौ दक्षिणां कन्यां दैवं वैवाहिकं हि तत् ॥ १॥ [ ] अथार्षलक्षणमाह – गोमिथुनपुरःसरं कन्याप्रदानादार्षः || ६ || कन्यां दत्त्वा पुनर्दद्याद् यत्र गोमिथुनं परम् । वराय दीयते सोऽत्र विवाहश्चार्षसंज्ञितः ] - कृत्वा यज्ञविधानं तु यो ददाति च ऋत्विजः । ॥१॥ [ अथ प्राजापत्यस्य लक्षणमाह- त्वं भवास्य महाभाग्यस्य सधर्मचारिणीति विनियोगेन कन्याप्रदानात् प्राजापत्यः ॥७॥ तथा च गुरुः धनिनो धनिनं यत्र विषये (?) कन्यकामिह । सन्तानाय स विज्ञेयः प्राजापत्यो मनीषिभिः ॥ १॥ [ ] १. मुम्बईनगरे माणिकचन्द्रदिगम्बर जैन ग्रन्थमालायां १९७९ तमे वैक्रमे वर्षे प्रकाशिते नीतिवाक्यामृतेऽनेन क्रमेण सूत्रपाठः, किन्तु पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने संघवीपाडासत्कभाण्डागारे विक्रमसंवत् १२९० वर्षे तालपत्रोपरिलिखिते नीतिवाक्यामृतेऽत्र ईदृशः सूत्रपाठः- “स ब्राह्मो विवाहो यत्र वरायालङ्कत्य कन्या प्रदीयते । त्वं भवास्य महाभाग्यस्य सहचारिणीति विनियोगेन कन्याप्रदानात् प्राजापत्यः । गोमिथुनपुरस्सरं कन्याप्रदानादार्ष: । स दैवो विवाहो यत्र ऋत्विजः कन्याप्रदानमेव दक्षिणा । एते चत्वारो धर्म्या विवाहाः । मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद् गान्धर्वः । पणबन्धेन कन्याप्रदानादासुरः । कन्यायाः प्रसादानाद् राक्षसः । सुप्त-मत्त-प्रमत्तकन्याप्रदानात् पैशाचः । एते चत्वारोऽधर्म्या अपि नाधर्म्यं यद्यस्ति वधूवरयोरनपवादं परस्परभाव्यत्वम् । " पृ० ८५B -८६ A For Private & Personal Use Only Jain Education International विशिष्टानि टिप्पणानि २०६ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy