SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०५ Jain Education International " । अथ सीदन्तु ताः सकलकल्पषविमोषपरपरममुनिपतिपदपङ्कजपूजनप्रवृत्तस्य किं ताभिरित्यत्र आह-निरपेक्षस्य तु वृत्तिनिःस्पृहस्य पुनः पुरुषस्य युक्तः संगतो विधेयतया संपूर्णः सर्वविरतिरूपतया परिपूर्णः संयमश्चैव साधुधर्म एव साधोरिव, अन्यथा सर्वथा निरपेक्षत्वासिद्धेरिति गाथार्थः॥” इति अभयदेवसूरिविरचितवृत्तियुक्ते पञ्चाशके ॥ “व्यतिरेके दोषमाह - वित्ती० गाहा। वृत्तिव्यवच्छेदे च जीवनोपायव्यवच्छित्तौ च गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते सर्वक्रिया धर्म-लोकव्यवहारगताः । निरपेक्षस्य तु 'सर्वक्रियासु' इति गम्यते युक्त उपपन्नः संगत: संपूर्णः संयम एव साधुधर्म एव साधुवदन्यथा सर्वथा निरपेक्षत्वासिद्धेः ” इति यशोभद्रसूरिविरचितवृत्तियुक्ते पञ्चाशके । पृ० ६ पं० ११ ॥ “ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाऽविरोधेन, न विरुद्धं स्वतश्च यत् ॥१२१॥ पात्रे दायकलोकरक्षाकरे निर्दिक्ष्यमाणलक्षणे दीनादिवर्गे च भणिष्यमाणरूप एव दानं स्वविभवातिसर्गरूपम् विधिवद् विधियुक्तम् इष्यते मतिमद्भिः, कथमित्याह-पोष्यवर्गाविरोधेन मातापित्रादिपोषणीयलोकस्य वृत्तेरनुच्छेदनेन । न विरुद्धं न दायक ग्राहकयोर्धर्मबाधाकारी हलोदूखलादिवत्, स्वतश्च स्वात्मना च यत् दीयमानमिति ||१२१|| ” इति वृत्तिसहिते योगबिन्दौ || पृ० ८ पं० १०, १७ । तुलना - "समविभवाभिजनयोरसमगोत्रयोश्च विवाहसम्बन्धः ||२०|| महतः कन्या पितुरैश्वर्यादल्पमवगणयति ॥२१॥ अल्पस्य कन्या पितुर्दौर्बल्यात् महताऽवज्ञायते ||२२|| अल्पस्य महता संव्यवहारे महान् व्ययोऽल्पश्चायः ||२३|| इति नीतिवाक्यामृते एकत्रिंशे विवाहसमुद्देशे ॥ पृ० ९ पं० ६-१५ / तुलना- “अथ विवाहसमुद्देशो व्याख्यायते । तत्रादावेव पुंसो व्यवहारसमयमाह - द्वादशवर्षा स्त्री षोडशवर्षः पुमान् प्राप्तव्यवहारौ ||१|| अत्र व्यवहारशब्देन सुरतोपचारः कथ्यते । कस्मिन् ? यदा स्त्री द्वादशवर्षा भवति तथा पुरुषः षोडशवार्षिकश्च तदा तयोर्व्यवहारधर्मोऽनुरागाय भवति । तथा च राजपुत्रः - यदा द्वादशवर्षा स्यान्नारी षोडशवार्षिका । पुरुषः स्यात् तदा रङ्गस्ताभ्यां मैथुनजः परः ||१|| 1 [ अथ स्त्रीपुरुषयोर्यथा व्यवहारात् कुलवृद्धिर्भवति तदाह - विवाहपूर्वी व्यवहारश्चातुर्वर्ण्यं कुलीनयति ॥२॥ कुलीनयति सन्तानं कुलीनं करोति । कोऽसौ ? विवाहः परिणयनम् । किंविशिष्टम् ? चातुर्वर्ण्यं वर्ण्यमनुलक्ष्यीकृत्य । एतदुक्तं भवति - अनुवर्ण्यं ब्राह्मण-क्षत्रिय वैश्य - शूद्राणां वर्णतया For Private & Personal Use Only विशिष्टानि टिप्पणानि २०५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy