SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०२ मूलहरः । यो भृत्या-ऽऽत्मपीडाभ्यामर्थं सञ्चिनोति, न तु क्वचिदपि व्ययते, स कदर्यः । तत्र तादात्विक-मूलहरयोरर्थभ्रंशेन धर्म-कामयोर्विनाशानास्ति कल्याणम् । कदर्यस्य त्वर्थसंग्रहो राज-दायाद-तस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद् बाधा सम्भवति, तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामबाधायां धर्मा-ऽर्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात् । कामा-ऽर्थयोस्तु बाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थ-कामयोः । उक्तं च - “धर्मश्चेन्नावसीदेत कपालेनापि जीवत: । आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥ ] १८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्- “तिथिपर्वोत्सवाः सर्वे त्यक्ता येन विशिष्यानि महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥[ ], साधुः शिष्टाचाररत: सकललोकाविगीतः । दीनो दीङ्च् क्षये हैमधा० टिप्पणानि १२४४] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तिः । तेषु प्रतिपत्तिकृत्, प्रतिपत्तिरुपचारोऽन्न-पानादिरूपः । कथम् ? यथावत्, औचित्यानतिक्रमेण । यदाह - "औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥१॥ ] १९|| तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति । यदाह - "दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः॥१॥"[ ], अनभिनिविष्टत्वं च कादाचित्कं शाठ्यानीचानामपि सम्भवत्यत आह-सदेति २०। ___ तथा गुणेषु सौजन्यौदार्य-दाक्षिण्य-स्थैर्य-प्रियपूर्वप्रथमाभिभाषणादिषु स्व-परयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु गुणबहुमान-तत्प्रशंसा-साहाय्यकरणादिना अनुकूला प्रवृत्ति । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २१॥ तथा प्रतिषिद्धो देशोऽदेशः, प्रतिषिद्धः कालोऽकालः, तयोरदेशाकालयोश्चर्या चरणम्, तां त्यजन् परिहरन्, अदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति २२ । तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्य-क्षेत्र-काल-भावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्व: सफल २०२ आरम्भः, अन्यथा तु विपर्ययः । यदाह - "स्थाने शमवतां शक्त्या व्यायामे वृद्धिरजिनाम् । अयथाबलमारम्भो निदानं क्षयसम्पदः ॥१॥ ] प्रतिक्रमेण । यदाह – “औचित्यमेकमकामाराधनशक्तिः । तेषु प्रतिपत्तिकृत, प्रातः सकललोकाविगीतः । दीनो दाह Jan Education International For Private & Personal Use Only www.ainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy