________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२०१
___ "क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेत: ॥१॥"[ ], प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात् प्रधानमिति श्रवणमात्राद् बुद्धिगुणादस्य भेदः १५ ॥
तथा अजीर्णे अजरणे पूर्वभोजनस्य, अथवा अजीणे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशील: । अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाह - "अजीर्णप्रभवा रोगाः। ] इति । अजीर्णं च लिङ्गतो ज्ञातव्यम् । यदाह - "मल-वातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गार: षडजीर्णव्यक्तिलिङ्गानि ॥१॥" ] १६॥
तथा काले बुभुक्षासमये भोक्ता अन्नाद्युपजीवकः । भोक्तेति साधौ तृन्, तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोजनं विशिष्यानि हि वमन-विरेचन-मरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् । तथा क्षुत्कालातिक्रमादन्नद्वेषो
टिप्पणानि देहसादश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ? । “पाना-ऽऽहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत् सात्म्यमिति गीयते॥ ] एवंलक्षणात् सात्म्यात् । आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परमसात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यप्राप्तमप्यपथ्यम् । सर्वं बलवत: पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषात् १७ ॥ _ तथा त्रिवर्गो धर्मार्थकामा: । तत्र यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः । यत: सर्वप्रयोजनसिद्धिः सोऽर्थः । यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः । ततोऽन्योन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि न त्वेकैकम्, साधयन् । यदाह - “यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्नेव श्वसन्नपि न जीवति ॥1 ], तत्र धर्मा-ऽर्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्म: शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्म-कामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनम्, सिंह इव सिन्धुरवधात् । अर्थ-कामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयाऽर्थ-कामौ सेवेत । बीजभोजिन: कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्रसुखाविरोधेन इहलोकसुखमनुभवति । एवमर्थबाधया धर्म-कामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया धर्मा-ऽर्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विक-मूलहर-कदर्येषु धर्मा-ऽर्थ-कामानामन्योन्यबाधा सुलभैव । तथाहि-य: किमप्यसञ्चित्योत्पन्नमर्थमपव्येति स तादात्विकः । यः पितृ-पैतामहमर्थमन्यायेन भक्षयति स |
'एवंलक्षणात् सात्म्यात् । आTHANतोऽपि विषतन्त्रज्ञो नियत एव कदाचिोदनासनिः सोऽर्थः । यत आदि
| २०१
Jain Education International
For Private & Personal use only
www.jainelibrary.org