SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २०० तथा गर्हितं देश-जाति-कुलापेक्षया निन्दितं कर्म, तत्राप्रवृत्तः । देशगर्हितं यथा-सौवीरेषु कृषिकर्म, लाटेषु मद्यसन्धानम् । जात्यपेक्षया यथा-ब्राह्मणस्य सुरापाणं तिल-लवणादिविक्रयश्च । कुलापेक्षया यथा-चौलुक्यानां मद्यपानम् । गर्हितकर्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ११॥ ___ तथा व्ययो भर्त्तव्यभरण-स्वभोम-देवता-ऽतिथिपूजनादिप्रयोजने द्रव्यविनियोगः । आयः कृषि-पाशुपाल्य-वाणिज्य-सेवादिजनितो द्रव्यलाभ:, तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह - लाभोचिअदाणे लाभोचिअभोगे लाभोचियपरिवारे लाभोचिअनिहिकरे सिया। [पञ्चसू० २], आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते, यदाह - “पादमायान्निधिं कुर्यात् पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥१॥"[ ] विशिणानि केचित्त्वाहुः – “आयादर्द्ध नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१॥" ] आयानुचितो हि व्ययो टिप्पणानि रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थं पुरुषं कुर्वीत । उक्तं च - "आयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥ १२॥ [ . ] तथा वेषो वस्त्रालङ्करणादिभोगः । वित्तं विभवः, उपलक्षणाद् वयो-ऽवस्था-देश-काल-जात्यादिग्रहः । तदनुसारेण तदानुरूप्येण कुर्वनिति सम्बध्यते । विभवाद्यनुसारेण वेषं कुर्वतो जनोपहसनीयता-तुच्छत्वा-ऽन्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्वन्नेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति,सत्यपि वित्ते कुचेलत्वादिधर्मा भवति,स लोकगर्हितो धर्मेऽप्यनधिकारीति १३॥ ___ तथा अष्टभिर्धीगुणैर्युक्तः । धियो बुद्धेर्गुणा: शुश्रूषादयः । ते त्वमी - "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥१॥" [अभिधानचिन्तामणि० ३१०-३११], तत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । ऊहो विज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्ति-युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा ऊह: सामान्यज्ञानम्, अपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगाद् मोह-सन्देह-विपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानम् ऊहापोहविज्ञानविशुद्धम् इदमित्थमेव' इति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमाप्नोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्या: १४ । तथा शृण्वानस्ताच्छील्येन धर्ममभ्युदय-नि:श्रेयसहेतुं शृण्वन् अन्वहं प्रतिदिनम्, धर्मश्रवणपरो हि मन:खेदापनोदादिकमाप्नोति । यदाह - २०० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy