________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ परिशिष्टम्
“लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्त्तितः ॥” [योगबि० १२६ ] इत्यादि । तस्य प्रशंसकः यथा - "विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्। असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् "" [ 1
१९८
तथा कुलं पितृ-पितामहादिपूर्वपुरुषवंशः, शीलं मद्य-मांस-निशाभोजनादिपरिहाररूपः समाचार:, ताभ्यां समास्तुल्याः समकुल- शीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, तत्र जाता गोत्रजाः, तेभ्योऽन्येऽन्यगोत्रजाः, तैः सार्धं कृतोद्वाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्ष: ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४ । एते धर्म्या विवाहाश्चत्वारः । मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद् गान्धर्वः ५ । पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसह्य कन्याग्रहणाद् राक्षसः ७ । सुप्त - प्रमत्तकन्याग्रहणात् पैशाचः ८ । एते चत्वारोऽप्यधर्म्याः । यदि वधू-वरयोः परस्परं रुचिरस्ति तदा अधर्म्या अपि धर्म्याः । शुद्धकलत्रलाभफलो विवाहः । तत्फलं च वधूरक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिर्वृतिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवा - ऽतिथि - बान्धवसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ३ ।
पापानि दृष्टा ऽदृष्टापायकारणानि कर्माणि, तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्य पारदारिकत्व - द्यूतरमणादीनि इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि । अदृष्टापायकारणानि मद्य-मांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ४ ।
Jain Education International
-
प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः, देशाचारो भोजना ऽऽच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारः, तं सम्यगाचरन्, तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ५ ।
अवर्णोऽश्लाघा, तं वदतीत्येवंशीलोऽवर्णवादी न क्वापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावर्णवादो हि बहुदोषः । यदाह - “परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥” [प्रशम० १०० ] तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् । किं पुना राजा-मात्य पुरोहितादिषु बहुजनमान्येषु । राजाद्यवर्णवादाद्धि वित्त - प्राणनाशनादिरपि दोषः स्यात् ||६||
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
१९८
www.jainelibrary.org