SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके १९७ विशिष्टानि टिप्पणानि | नीतिवाक्यामृते पञ्चमे विद्यावृद्धसमुद्देशे टीकासहिते। धर्मबिन्दौ पृ०५ पं०७-पृ० २३ ॥ अस्य सर्वस्यापि ग्रन्थस्य आचार्यश्रीहेमचन्द्रसूरिविरचितेन स्वोपज्ञवृत्तिसहितेनावश्यं तुलना द्रष्टव्या, तथाहिचतुर्थ "न्यायसम्पन्नविभव: शिष्टाचारप्रशंसकः । कुल-शीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥४७॥ पापभीरु: प्रसिद्धं च देशाचारं समाचरन् परिशिष्टम् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥४८॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥४९॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥५०॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥५१॥ अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन ॥५२॥ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च ॥५३॥ अदेशा-ऽकालयोश्चर्यां त्यजन् जानन् बला-ऽबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥५४॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्ज: सदय: सौम्यः परोपकृतिकर्मठः ॥५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥५६॥ दशभिः कुलकम् । स्वामिद्रोह-मित्रद्रोह-विश्वसितवञ्चन-चौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूप: सदाचारो न्यायः, तेन सम्पन्न उत्पन्नो विभव: सम्पद् यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय, अशङ्कनीयतया स्वशरीरेण तत्फलभोगाद् मित्र-स्वजनादौ संविभागकरणाच्च । यदाह - “सत्र शुचयो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापा: सर्वत्र शङ्किताः ॥१॥"[ ], परलोकहिताय च, सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव, इहलोके हि लोकविरुद्धकारिणो वध-बन्धादयो दोषाः, परलोके नरकादिगमनादयः । यद्यपि कस्यचित् पापानुबन्धिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यदाह - “पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत् तत् तमविनाश्य न जीर्यति ॥1 ], न्याय एव च परमार्थतोऽर्थोपार्जनोपायोपनिषत् । “निपानमिव मण्डूका: सर: पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति विवशा: सर्वसम्पदः॥ ], विभववत्त्वं च गार्हस्थ्ये प्रधान कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् १॥ तथा शिष्टाचारप्रशंसकः । शिष्यन्ते स्म शिष्टा वृत्तस्थ-ज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा: पुरुषविशेषाः, तेषामाचारश्चरितम् । यथा - गादीनादौ कृपया वितरणा स्वकर्मबलगर्विताः । कुकर्मनिहताय, अशङ्खनीयतया स्वशरीरस्ववर्णानुरूपः सदाचारो न्यायकम् । १९७ Jain Education international For Private Personal use only www.nelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy