SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् १९६ विशिष्टानि टिप्पणानि चतुर्थं परिशिष्टम् । कतिपयानि विशिष्टानि टिप्पणानि । पृ०४६०९॥"तत्कारी स्यात्स नियमात् तद्वेषी चेति यो जडः। आगमार्थे तमुल्लंघ्य, तत एव प्रवर्तते ॥२४०॥ तत्कारी तत्करणशीलः, स्याद् भवेत्, स नियमाद् अवश्यंभावेन, तद्वेषी च स्वयमेव क्रियमाणवस्तुद्वेषवाँश्च इत्येतद्रूपः सम्पद्यते यः कश्चित् जडो मन्दः आगमार्थे आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे तमागमम् उल्लंघ्य अतिक्रम्य तत एवागमादेव, प्रवर्तते, आगमनिरूपितविधिनिरपेक्षतयाऽऽगमार्थमनुतिष्ठन्नपि न तद्भक्त: किं तु तद्विष्ट एव, द्वेषमन्तरेण तदुल्लङ्घनाभावादिति भावः ॥२४०॥” इति वृत्तिसहिते योगबिन्दौ॥ पृ० ४ पं० ११ । तुलना- “यतोऽभ्युदय-नि:नेयससिद्धिः स धर्मः" इति वैशेषिकसूत्रे १।१।२॥ . पृ०५५०१/तुलना-"नित्य-नैमित्तिकानुष्ठानस्थो गृहस्थः ॥१८॥ यो नित्य-नैमित्तिकानुष्ठानं करोति स गृहस्थः, नान्यो नित्य-नैमित्तिकवर्जितः । अत्र नित्यानि स्वाध्याय-पितृतर्पण-वासुदेवपूजन-स्नान-दानपूर्वाणि । नैमित्तिकानि संक्रान्ति-वैधृति-व्यतीपात-चन्द्रक्षयपूर्वाणि । तथा च भागुरिःनित्य-नैमित्तिकपर: श्रद्धाया परया युतः । गृहस्थः प्रोच्यते सद्भिरशृङ्गः पशुरन्यथा ॥१॥ [ ] । अथ नित्यानुष्ठानस्य लक्षणमाहब्रह्म-देव-पित्रतिथि-भूतयज्ञा हि नित्यमनुष्ठातम् ।।१९॥ यत् स्वशक्त्या ब्रह्मण: पूजा क्रियते, तथा अभीष्टदेवताचर्नम्, तथा पितृतर्पणम्, तथा कालप्राप्तब्राह्मणतर्पणम्, तथा भूतयज्ञः, भूतशब्देन वैश्वदेवबलिप्रदानमुच्यते । एतानि कुर्वाणो गृहस्थो नित्यानुष्ठानी भवति । तथा च वर्ग:पितृ-देव-मनुष्याणां पूजनं ब्राह्मणैः सह । बलिप्रदानसंयुक्तं नित्यानुष्ठानमुच्यते ॥१॥ [ ] । अथ नैमित्तिकानुष्ठानस्य लक्षणमाहदर्श-पौर्णमास्याद्याश्रयं नैमित्तिकम् ॥२०॥ दर्शशब्देनामावास्या प्रोच्यते । पौर्णमासी प्रसिद्धा । एते द्वे अपि आद्ये प्रथमे यासां तिथीनां ता दर्श-पौर्णमास्याद्याः, तासु तिथिषु देवतासमुद्देशेन यत् क्रियते धर्मफलं तनैमित्तिकम् ।...............अथ यतिलक्षणमाह- यो देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय यतते स यतिः ॥२८॥ यो देहमात्रारामः शरीरमात्रेणात्मानं रमते, नान्यत् किञ्चिदानन्दार्थं विलोकयति । सम्यग्विद्याशब्देन ज्ञानमभिधीयते सा एव नौर्यानपात्रं तामभ्यस्यन् संसारनदीपारगमनाय यो योगस्तदर्थं यतते यत्नं करोति स यतिः । तथा च हारीत:- आत्मारामो भवेद्यस्तु विद्यासेवनतत्परः । संसारतरणार्थाय योगभाग् यतिरुच्यते ॥१॥ [ ]" इति सोमदेवसूरिविरचिते नैमित्तिकम् ॥२०॥दिशानन्संवतं नित्यानुठानमुच्यते परतानि कुर्वाणो गृहस्थो मत्याद्वार Jain Education Intestinal For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy