________________
सवृत्तिके धर्मबिन्दौ
प्रथमं
परिशिष्टम्
१७२
Jain Education International
सुगतिर्विशिष्टदेवस्थानम् ७ (४५० ) । तत्रोत्तमा रूपसंपत्, संत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवहः, मनोहराण्युद्यानानि रम्या जलाशयाः कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः सदा चित्ताह्लादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् ८ (४५१) । तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म ९ (४५२) । सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन १० (४५३) । गुणपक्षपात: १, असदाचारभीरुता २, कल्याणमित्रयोगः ३, सत्कथाश्रवणम् ४, मार्गानुगो बोध: ५, सर्वोचितप्राप्तिः, हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम् संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् ६, अत्युदार आशय: ७, असाधारणा विषयाः, रहिता: संक्लेशेन, अपरोपतापिन:, अमङ्गुला ८ ११ (४५४) । काले धर्मप्रतिपत्ति: १२ (४५५) । गुरुसहायसंपत् १३ ( ४५६ ) । साधु संयमानुष्ठानम् १४ (४५७) । परिशुद्धाराधना १५ (४५८) | विधिवच्छरीरत्यागः १६ ( ४५९) । विशिष्टतरं देवस्थानम् १७ ( ४६० ) । सर्वमेव शुभतरं तत्र १८ (४६१) । गति - शरीरादिहीनम् १९ (४६२) | रहितमौत्सुक्यदुःखेन २० (४६३) । अतिविशिष्टाह्लादादिमत् २१ (४६३) । तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण २२ (४६५) । विशिष्टतरं तु सर्वम् २३ (४६६) । क्लिष्टकर्मविगमात् २४ (४६७) । शुभतरोदयात् २५ (४६८ ) । जीववीर्योल्लासात् २६ (४६९) । परिणतिवृद्धेः २७ (४७०) । तत्तथास्वभावत्वात् २८ (४७१) । प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासनिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन २९ (४७२) । अशुभपरिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् ३० (४७३) । तदभावे बाह्यादल्पबन्धभावात् ३१ (४७४) । वचनप्रामाण्यात् ३२ (४७५) । बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ३३ (४७६) । एवं परिणाम एव शुभो मोक्षकारणमपि ३४ (४७७) । तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ३५ (४७८) । सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात् ३६ (४७९) । समग्रक्रियाऽभावे तदप्राप्तेः ३७ (४८० ) । इत्यप्रमादसुखवृद्धया तत्काष्ठासिद्धौ निर्वाणावाप्तिरिति ३८ (४८१ ) ।
यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः ॥४०॥ १.संस्थिति ं J१ ॥ २. दः । बन्धः । अनेकौं १ ॥। ३. एवं तच्च्युतावपि विशिष्टकाले महाकुले J१ ॥
For Private & Personal Use Only
धर्मबिन्दु
सूत्रपाठः
१७२
www.jainelibrary.org