SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी प्रथमं परिशिष्टम् १७१ प्रवृत्तेः ५२ (४१९ ) । सद्भावप्रतिबन्धात् ५३ (४२० ) । इतरथाऽऽर्त्तध्यानापत्ति: ५४ (४२१) । अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् ५५ (४२२ ) । नेदं प्रवृत्तिकालसाधनम् ५६ (४२३) । इति सदोचितम् ५७ (४२४) । तदा तदसत्त्वात् ५८ (४२५) । प्रभूतान्येव तु प्रवृत्तिकालसाधनानि ५९ (४२६) । निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनात् ६० (४२७) । तस्यापि तथापारम्पर्यसाधनत्वम् ६१ (४२८) । यतिधर्माधिकारश्चायमिति प्रतिषेधः ६२ (४२१) । न चैतत् परिणते चारित्रपरिणामे ६३ (४३० ) । तस्य प्रसन्नगम्भीरत्वात् ६४ (४३१) । हितावहत्वात् ६५ (४३२) । तत्साधनानुष्ठानविषयस्तूपदेशः प्रतिपात्यसौ, कर्मवैचित्र्यात् ६६ (४३३) । तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातात् ६७ (४३४) । माध्यस्थ्ये तद्वैफल्यमेव ६८ (४३५) । स्वयंभ्रमणसिद्धेः ६९ (४३६) । भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः ७० (४३७) । इति निदर्शनमात्रम् धर्मबिन्दु७१ (४३८) । न सर्वसाधर्म्ययोगेन ७२ (४३९) । यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् ७३ (४४० ) । वस्तुतः स्वाभाविकत्वात् ७४ (४४१) । सद्भाववृद्धेः फलोत्कर्षसाधनात् ७५ (४४२) । उपप्लवविगमेन तथावभासनादिति ७६ (४४३) । 1 सूत्रपाठ: एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि ||३४|| सद्दर्शनादिसंप्राप्तेः संतोषामृतयोगतः । भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा ॥३५॥ उक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ||३६|| इति धर्मबन्दी यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ॥ ॥ अथ सप्तमोऽध्यायः ॥ फलप्रधान आरम्भ इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं व्यासतः पुनरुच्यते ||३७|| प्रवृत्त्यनमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः ||३८|| विशिष्टं देवसौख्यं यत् शिवसौख्यं च यत्परम् । धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः ||३९|| इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः १ (४४४) द्विविधं फलम् अनन्तरपरम्परभेदात् २ (४४५) । तत्रानन्तरफलमुपप्लवहासः ३ (४४६) । भावैश्वर्यवृद्धिः ४ (४४७) । जनप्रियत्वम् ५ (४४८ ) । परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः ६ (४४९) । १. समाप्त : D. नास्ति । २. फलमुपव J१ ॥ Jain Education International For Private & Personal Use Only १७१ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy