________________
।
सवत्तिके धर्मबिन्दौ प्रथम परिशिष्टम्
। धर्मबिन्दुसूत्रपाठः
१७०
तस्यैव च गुरुत्वात् ६ (३७३)। सर्वथा दुःखमोक्षणात्७ (३७४)। संतानप्रवृत्ते: ८(३७५)। योगत्रयस्याप्युदग्रफलभावात् ९ (३७६)। निरपेक्षधर्मोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसंपादकाभावे प्रतिपत्तिप्रतिषेधाच्च १० (३७७) । नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य सद्वीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयान्निरपेक्षयतिधर्म: ११ (३७८) । तत्कल्पस्य च परार्थलब्धिविकलस्य १२ (३७९) । उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् १३ (३८०) । उदयविवेकभावाद्रत्नत्रयाराधनात् १४ (३८१) । अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् १५ (३८२) । निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् १६ (३८३) । न चासदभिनिवेशवत्तत् १७ (३८४) । अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् १८ (३८५)। संभवति तद्वतोऽपि
नि ततोऽपि चारित्रम् १९ (३८६) । अनभिनिवेशवांस्तु तद्युक्त: खेल्वतत्त्वे २० (३८७) । स्वस्वभावोत्कर्षात् २१ (३८८) । मार्गानुसारित्वात् ३२ (३८९) । तथारुचिस्वभावत्वात् २३ (३९०) । श्रवणादौ प्रतिपत्ते: २४ (३९१) । असदाचारगर्हणात् २५ (३९२) । इत्युचितानुष्ठानमेव सर्वत्र श्रेय: २६ (३९३) । भावनासारत्वात्तस्य २७ (३९४) । इयमेव प्रधानं निःश्रेयसागम् २८ (३९५) । एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्ते: २९ (३९६) । भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ३० (३९७)। न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ३१ (३९८)। उपरागमात्रत्वात् ३२ (३९९)। दृष्टवदपायेभ्योऽनिवृत्ते: ३३ (४००) । एतन्मूले च हिताहितयोः प्रवृत्ति-निवृत्ती ३४ (४०१) । अत एव भावनादृष्टज्ञाताद्विपर्ययायोगः ३५ (४०२) । तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति ४६ (४०३) । इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् ३७ (४०४) । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः ३८ (४०५) । वचनोपयोगपूर्वा विहितप्रवृत्तिोनिरस्या: ३९ (४०६) । महागुणत्वाद्वचनोपयोगस्य ४० (४०७) । तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणम् ४१ (४०८) । भगवतैवमुक्तमित्याराधनायोगात् ४२ (४०९) । एवं च प्रायो भगवत एव चेतसि समवस्थानम् ४३ (४१०)। तदाज्ञाऽऽराधनाच्च तद्भक्तिरेव ४४ (४११)। उपदेशपालनैव भगवद्भक्तिः , नान्या , कृतकृत्यत्वात् ४५ (४१२) । उचितद्रव्यस्तवस्यापि तद्रूपत्वात् ४६ (४१३) । भावस्तवातया विधानात् ४७ (४१४) । हृदि स्थिते च भगवति क्लिष्टकर्मविगम: ४८ (४१५)। जलानलवदनयोर्विरोधात् ४९ (४१६) । इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् ५० (४१७) । प्रायोऽतिचारसंभवात् ५१ (४१८) । यथाशक्ति १.पर नास्ति १ ॥ २: विवेकादिभावा' ५ ॥ ३: नातमात्रात् १ ॥ ४.भवति D॥ ५.खलु तत्त्वे १ ॥ ६.इत्यनुष्ठा १॥ ७.इदमेव १ ॥ ८ उपगममात्रा १ । इतः परं ४३० तमं सूत्रं यावत् एकम् ५९ तमं पत्रं नास्ति १॥
For Private & Personal use only
www.jainelibrary.org
Jain Education International