________________
सवृत्तिके
धर्मबिन्दौ प्रथम परिशिष्टम्
धर्मबिन्दुसूत्रपाठः
१६८
॥ अथ पञ्चमः अध्यायः॥ बाहुभ्यां दुस्तरो यद्वत् क्रूरनक्रो महोदधिः । यतित्वं दुष्करं तद्वत् इत्याहुस्तत्त्ववेदिनः ॥२५॥ अपवर्ग: फलं यस्य जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तत् न चाद्भुतम् ॥२६॥
भवस्वरूपविज्ञानात् तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥२७॥ इत्युक्तो यतिः , अधुनाऽस्य धर्ममनुवर्णयिष्यामः , यतिधर्मो द्विविध: सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च १(२७०) । तत्र सापेक्षयतिधर्म: २(२७१)। गुर्वन्तेवासिता ३(२७२) । तद्भक्ति-बहुमानौ ४(२७३) । सदाऽऽज्ञाकरणम् ५(२७४) । विधिना प्रवृत्ति: ६(२७५) । आत्मानुग्रहचिन्तनम् ७(२७६) । व्रतपरिणामरक्षा ८(२७७) । आरम्भत्याग: ९(२७८) । पृथिव्याद्यसंघट्टनम् १०(२७९) । विधेर्याशुद्धिः ११(२८०) । भिक्षाभोजनम् १२(२८१) । आघाताद्यदृष्टिः १३(२८२) । तत्कथाऽश्रवणम् १४(२८३) । अरक्तद्विष्टता १५(२८४) । ग्लानादिप्रतिपत्ति: १६(२८५) । परोद्वेगाहेतुता १७(२८६) । भावतः प्रयत्नः १८(२८७) । अशक्ये बहिश्चार: १९(२८८) । अस्थानाभाषणम् २०(२८९) । स्खलितप्रतिपत्ति: २१(२९०) । पारुष्यपरित्यागः २२(२९१) । सर्वत्रापिशुनता २३(२९२) । विकथावर्जनम् २४(२९३) । उपयोगप्रधानता २५(२९४) । निश्चितहितोक्ति: २६(२९५) । प्रतिपन्नानुपेक्षा २७(२९६)। असत्प्रलापाश्रुति: २८(२९७) अभिनिवेशत्याग: २९(२९८)। अनुचिताग्रहणम् ३०(२९९)। उचिते अनुज्ञापना ३१(३००)। निमित्तोपयोग: ३२(३०१) । अयोग्येऽग्रहणम् ३३(३०२) । अन्ययोग्यस्य ग्रहः ३४(३०३) । गुरोनिवेदनम् ३५(३०४) । स्वयमदानम् ३६(३०५) । तदाज्ञया प्रवृत्ति: ३७(३०६)। उचितच्छन्दनम् ३८(३०७)। धर्मायोपभोग: ३९(३०८)। विविक्तवसतिसेवा ४०(३०९)। स्त्रीकथापरिहार: ४१(३१०)। निषद्यानुपवेशनम् ४२(३११) । इन्द्रियाप्रयोगः ४३(३१२) । कुड्यान्तरदाम्पत्यवर्जनम् ४४(३१३) । पूर्वक्रीडितास्मृति: ४५(३१४) । प्रणीताभोजनम् ४६(३१५) । अतिमात्राभोग: ४७(३१६) । विभूषापरिवर्जनम् ४८(३१७) । तत्त्वाभिनिवेश: ४९(३१८) । युक्तोपधिधारणा ५०(३१९) । मूर्छात्याग: ५१(३२०) । अप्रतिबद्धविहरणम् ५२(३२१) । परकृतबिलवास: ५३(३२२)। अवग्रहशुद्धिः ५४(३२३)। मासादिकल्प: ५५(३२४)। एकत्रैव तत्क्रिया ५६(३२५) । सर्वत्राममत्वम् ५७(३२६) । निदानपरिहार: ५८(३२७) । विहितमिति प्रवृत्ति: ५९(३२८)। विधिना स्वाध्याययोगः ६०(३२९)। आवश्यकापरिहाणिः ६१(३३०) । यथाशक्ति तप:सेवनम् ६२(३३१) । परानुग्रहक्रिया ६३(३३२) । गुणदोषनिरूपणम् ६४(३३३) । बहुगुणे प्रवृत्तिः ६५(३३४) । १:गः । विषयानुपवेशनम् ।१ । ४०-४ सूत्रे नास्ति J१॥ २: दम्पत्य १ ॥ ३: बिलनिवास: J१ ॥
१६८
Jain Education International
For Private & Personal use only
Wwwsnelibrary.org