________________
सप्तमोऽध्यायः
सवृत्तिके | परिणामकारणतया पुनर्बाह्यम् अन्तःपुर-पुरादि बन्धकारणमिति ॥३०॥ कुत इत्याहधर्मबिन्दौ
तदभावे बाह्यादल्पबन्धभावात् ।।३१॥४७४॥ इति । तदभावे अशुभपरिणामाभावे बाह्यात् जीवहिंसादेः अल्पबन्धभावात् तुच्छबन्धोत्पत्तेः ॥३१॥ १४४ एतदपि कथमित्याह
वचनप्रामाण्यात् ।।३।।४७५।। इति । वचनस्य आगमस्य प्रामाण्यात् प्रमाणभावात् ॥३२॥ एतदेव भावयन्नाह
बाझोपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ॥३३॥४७६।। इति । बाह्यः शरीरमात्रजन्यः स चासावुपमर्दश्च बहुतमजीवोपघातरूप: तत्रापि, किं पुनस्तदभावे इति अपिशब्दार्थः, असंशिषु संमू छैनजमहामत्स्यादिषु तथा अल्पतया बन्धस्य श्रुतेः अस्सन्नी खलु पढम [बृहत्सं० २८४] इत्यादेर्वचनस्य सिद्धान्ते समाकर्णनात्, तथाहि- असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीरा: स्वयंभूरमणमहासमुद्रमनवरतमालोडमाना: पूर्वकोट्यादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निर्निमित्तमेवाऽऽपूरितातितीव्ररौद्रध्यानोऽन्तर्मुहूर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुरिक उत्पद्यते इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतीति ॥३३॥ एवं सति यदन्यदपि सिद्धिमास्कन्दति तद् दर्शयति
एवं परिणाम एव शुभो मोक्षकारणमपि ॥३४॥४७७।। इति । एवं यथा अशुभबन्धे, परिणाम एवं शुभः सम्यग्दर्शनादि: मोक्षकारणमपि मुक्तिहेतुरपि, किं पुनर्बन्धस्येति अपिशब्दार्थः ॥३४॥ कुत इत्याह१.समूळज' K.॥ २. लोडयमाना L.Kसं०॥ ३.एवं सं.॥ ४.शुभसम्य' J.M
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org