________________
सवृत्तिके
धर्मबिन्दौ
तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ॥३५॥४७८।।इति । तस्य शुभपरिणामस्याभावे समग्रक्रियायोगेऽपि परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि, किं पुनस्तदभावे इति अपिशब्दार्थ: मोक्षासिद्धेः निर्वाणानिष्पत्तेरिति ॥३५।। एतदपि कुत इत्याह
सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात् ॥३६॥४७९।।इति । सर्वजीवानामेव सर्वेषामपि व्यवहारार्हाणां प्राणिनाम् अनन्तशः अनन्तान् वारान् ग्रैवेयकेषु विमानविशेषेषूपपातस्य उत्पत्तेः श्रवणात् शास्त्रे सप्तमोऽध्यायः समाकर्णनात् ॥३६।। यदि नामैवं ततः किं सिद्धमित्याह
समग्रक्रियाऽभावे तदप्राप्तेः ॥३७॥४८०।।इति । समग्रक्रियाऽभावे परिपूर्णश्रामण्यानुष्ठानाभावे तदप्राप्ते: नवग्रैवेयकोपपाताप्राप्तेः, तथा चावाचिआ णोहेणाणंता मुक्का गेवेज्जगेसु य सरीरा। न य तत्थाऽसंपुण्णाए साहुकिरियाए उववाओ॥ [पञ्चा.१४।४८] त्ति।।२२१।। उपसंहरन्नाह
इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धौ निर्वाणावाप्तिरिति ॥३८॥४८१।। इति । इति एवमुक्तनीत्याऽप्रमादसुखस्य अप्रमत्ततालक्षणस्य वृद्ध्या उत्कर्षेण तस्य चारित्रधर्मस्य काष्ठासिद्धौ प्रकर्षनिष्पत्तौ शैलेश्यवस्थालक्षणायां निर्वाणस्य सकलक्लेशलेशविनिर्मुक्तजीवस्वरूपलाभलक्षणस्यावाप्ति: लाभ इति: परिसमाप्ताविति ॥४१॥
यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः ॥४०॥इति । यत्किञ्चन सर्वमेवेत्यर्थः शुभं सुन्दरं लोके त्रिजगल्लक्षणे स्थानं शक्राद्यवस्थास्वभावं तत्सर्वमेव हि: स्फुटम्, कीदृशमित्याह-अनुबन्धगुणोपेतं जात्यस्वर्णघटितघटादिवत् उत्तरोत्तरानुबन्धसमन्वितं धर्माद् उक्तनिरुक्ताद् आप्नोति लभते मानव: पुमान्, मानवग्रहणं च तस्यैव परिपूर्णधर्मसाधनसहत्वादिति ॥१॥ तथा
धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४१॥इति । १.गेवेज्जगेसू सरीरा L. J.| गेवेज्जगेसु सरीरा Kमू. । गेवेज्जगेसु य सरीरा Kसं. ॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org