________________
सवृत्तिके
धर्मबिन्दौ
१४३
Jain Education International
परिणतेः तस्य तस्य शुभाध्यवसायस्य वृद्धेः उत्कर्षात् ||२७|| इयमपि
तत्तथास्वभावत्वात् ||२८||४७१।। इति ।
तस्य जीवस्य तथास्वभावत्वात् परिणतिवृद्धिस्वरूपत्वात्, परिपक्के हि भव्यत्वे प्रतिक्षणं वर्द्धन्त एव जीवानां शुभतराः परिणतय इति ॥२८॥
किञ्च,
प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन ||२९||४७२।। इति ।
प्रभूतानि प्रचुराणि उदाराणि उदग्राणि, किं पुनरन्यथारूपाणीति अपिशब्दार्थः, तस्य पूर्वोक्तजीवस्य भोगसाधनानि पुर-परिवारा ऽन्तः पुरादीनि, उदारसुखसाधनान्येवेत्युत्तरेण योग:, कुत इत्याह- अयत्नोपनतत्वात्, अयत्नेन अत्युद्गाढपुण्यप्रकर्षोदयपरिपाकाक्षिप्तत्वात् तथाविधपुरुषकाराभावेन उपनतत्वाद् ढौकितत्वात्, तदपि कुत इत्याह- प्रासङ्गिकत्वात् कृषिकरणे पलालस्येव प्रसङ्गोत्पन्नत्वात्, एतदपि अभिष्वङ्गाभावात्, भरतादीनामिव निबिडगृद्ध्यभावात्, अयमपि कुत्सिताप्रवृत्तेः कुत्सितेषु नीतिमार्गोत्तीर्णेषु भोगसाधनेष्वप्रवृत्तेः, इयमपि शुभानुबन्धित्वात् मोक्षप्राप्तिनिमित्तार्यदेश-दृढसंहननादिकुशलकार्यानुबन्धविधा यकत्वात् किमित्याह उदारसुखसाधनान्येव, उदारस्य अन्यातिशायिनः सुखयैव शरीर-चित्ताह्लादरूपस्य साधनानि जनकानि न त्विहलोक - परलोकयोरपि दुःखस्य, अत्रैव तात्त्विकं हेतुमाह— बन्धहेतुत्वाभावेन, बन्धस्य कुगतिपापहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं हेतुभावः प्रक्रान्तभोगसाधनानामेव तस्याभावेन, इदमुक्तं भवति — प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावादुदारसुखसाधनान्येव तस्य भवन्ति, बन्धहेतुत्वाभावश्चायत्नोपनतत्वादिकादुत्तरोत्तरहेतुबीजभूताद्धेतुपञ्चकादिति।। २९॥
बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह
अशुभ परिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् ||३०||४७३ ।। इति ।
अशुभ परिणाम एव हि यस्मात् प्रधानं मुख्यं बन्धकारणं नरकादिफलपापकर्मबन्धनिमित्तं न तु अन्यत् किञ्चित्, तदङ्गतया तु अशुभ
१. विधायित्वात् L.॥२. दुःखस्येति अत्रैव LII
For Private & Personal Use Only
सप्तमोऽध्यायः
१४३
www.jainelibrary.org