________________
सवृत्तिके धर्मबन्दी
१४२
गति: देशान्तरसंचाररूपा, शरीरं देहः, आदिशब्दात् परिवार- प्रवीचारादिपरिग्रहस्तैर्हीनं तुच्छं स्यात्, उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादीनां हीनतया शास्त्रेषु प्रतिपादनात् ॥१९॥ तथा
रहितमौत्सुक्यदुःखेन ॥२०॥४६३॥ इति ।
Jain Education International
त्यक्तं चित्तवाक्कायत्वरारूपव्याबाधया || २० || पुनरपि कीदृगित्याह
अतिविशिष्टाह्लादादिमत् ||२१|| ४६४ ।। इति ।
अतिविशिष्टा अत्युत्कर्षभाजो ये आह्लादादय आह्लाद - कुशलानुबन्ध- महाकल्याणपूजाकरणादयः सुकृतविशेषाः तद्युक्तम् ॥ २१॥ ततःतच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण ॥ २२॥४६५ ।। इति ।
सुगममेव । नवरं पूर्वेण इति पूर्वग्रन्थेन, स च विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले [सू०४५२] इत्यादिरूप इति ॥२२॥
विशेषमाह
विशिष्टतरं तु सर्वम् ||२३||४६६ ।। इति ।
प्रागुक्तादतिविशिष्टं पुनः सर्वम् अत्यन्तनिरवद्यं जन्म [सू०४५२] सुन्दररूपादि [सू०४५३ ] ॥२३॥ कुत एतदित्याहक्लिष्टकर्मविगमात् ||२४||४६७॥ इति । दौर्गत्य - दौर्भाग्य - दुष्कुलत्वादिपर्यायवेद्यकर्मविरहात् ||२४|| अयमपि शुभतरोदयात् || २५ ||४६८।। इति । शुभतराणाम् अतिप्रशस्तानां कर्मणां परिपाकात् ||२५|| असावपि जीववीर्योल्लासात् ||२६|| ४६९ ।। इति । जीवीर्यस्य परिशुद्धसामर्थ्यलक्षणस्य उल्लासाद् उद्रेकात् ॥ २६ ॥ एषोऽपि परिणतिवृद्धेः ||२७|| ४७०॥ इति ।
For Private & Personal Use Only
सप्तमोऽध्यायः
१४२
www.jainelibrary.org