________________
सप्तमोऽध्यायः
सवृत्तिके | असाधारणा: अन्यैरसामान्याः शालिभद्रादीनामिव विषयाः शब्दादयः, रहिता: परिहीणा: संक्लेशेन अत्यन्ताभिष्वक्रेन, अपरोपतापिन: धर्मबिन्दौ | परोपरोधविकला:, अमलावसानाः पथ्यानभोग इव सुन्दरपरिणामाः ॥११॥ तथा
काले धर्मप्रतिपत्तिः ॥१२॥४५५।। इति । १४१ काले विषयवैमुख्यलाभावसरलक्षणे धर्मप्रतिपत्ति: सर्वसावद्यव्यापारपरिहाररूपा ॥१२॥ तत्र च
गुरुसहायसंपत् ॥१३॥४५६॥ इति । गुर्वी सर्वदोषविकलत्वेन महती सहायानां गुरुगच्छादीनां संपत् संपत्तिः ॥१३।। ततश्च
साधु संयमानुष्ठानम् ॥१४॥४५७।। इति । साधु सर्वातिचारपरिहारतः शुद्धं संयमस्य प्राणातिपातादिपापस्थानविरमणरूपस्य अनुष्ठानं करणम् ॥१४॥ ततोऽपि
परिशुद्धाराधना ॥१५||४५८। इति । परिशुद्धा निर्मलीमसा आराधना जीवितान्तसंलेखनालक्षणा ॥१५॥ तत्र च
विधिवच्छरीरत्यागः ॥१६॥४५९।। इति । शास्त्रीयविधिप्रधानं यथा भवति एवं कडेवरपरिमोक्षः ॥१६॥ ततो
विशिष्टतरदेवस्थानम् ॥१७॥४६०॥ इति। विशिष्टतरं प्राग्लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमानावासलक्षणमस्य स्यात् ॥१७॥ ततः
सर्वमेव शुभतरं तत्र ॥१८॥४६१॥ इति । सर्वमेव रूपसंपदादि शुभतरं प्राच्यापेक्षयाऽतीव शुभं तत्र स्थाने ॥१८॥ परं
गतिशरीरादिहीनम् ॥१९॥४६२।। इति । १.तरं देव L.IN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org