SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः सवृत्तिके | विशिष्टगुणसमन्वितत्वेन एकान्ततो निखिलदोषविकलं जन्म प्रादुर्भाव इति ॥९॥ तत्र च यद्भवति तदाहधर्मबिन्दौ सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन ॥१०॥४५३।। इति। सुन्दरं शुभसंस्थानवत्तया रूपम् आकार:, आलयो लक्षणानां चक्र-वज्र-स्वस्तिक-मीन-कलश-कमलादीनाम्, रहितं परित्यक्तं आमयेन १४० ज्वरा-ऽतीसार-भगन्दरादिना रोगेन, युक्तं संगतं प्रज्ञया बहु-बहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या, संगतं संबद्धं कलानां लिपिशिक्षादीनां शकुनरुतपर्यवसानानां कलापेन समुदायेन ॥१०॥ तथा गुणपक्षपात: १, असदाचारभीरुता २, कल्याणमित्रयोग: ३, सत्कथाश्रवणम् ४, मार्गानुगो बोध: ५, सर्वोचितप्राप्ति:-हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम्, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् ६, अत्युदारः आशय: ७, असाधारणा विषयाः, रहिता: संक्लेशेन, अपरोपतापिन:, अमङ्गुलावसाना: ८ ॥११॥४५४॥ इति। गुणाः शिष्टचरितविशेषा असज्जनानभ्यर्थनादयः, तथा च पठन्तिअसन्तो नाभ्यर्थ्या: सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिाय्या मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२२०॥ [नीतिश. १८] तेषां पक्षः अभ्युपगमः, तत्र पात: अवतार इति, अत एव असदाचारभीरुता चौर्य-पारदार्याद्यनाचाराद्व्याधि-विष-प्रदीपनकादिभ्य इव दूर भीरुभाव:, कल्याणमित्रैः सुकृतबुद्धिनिबन्धनैर्जनोग: संबन्धः, सतां सदाचाराणां गृहिणां यतीनां च कथाश्रवणं चरिताकर्णनम्, मार्गानुगो मुक्तिपथानुवर्ती बोधो वस्तुपरिच्छेदः, सर्वेषां धर्मार्थकामानामाराधनं प्रत्युचितानां वस्तूनां प्राप्तिः लाभ: सर्वोचितप्राप्तिः, कीदृश्यसाविति विशेषणचतुष्टयेनाह-हिताय कल्याणाय सत्त्वसंघातस्य जन्तुजातस्य, परितोषकरी प्रमोददायिनी गुरूणां माता-पित्रादिलोकस्य, संवर्द्धनी वृद्धिकारिणी गुणान्तरस्य स्वपरेषां गुणविशेषस्य, निदर्शनं दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु जनानां शिष्टलोकानाम्, तथाऽत्युदार: अतितीव्रौदार्यवान् आशयो मन:परिणाम:, १. प्रिया न्याय्या वृत्तिर्मलिनमसुभनेऽप्यसुकर त्वसन्तो नाभ्यर्थ्या: सुहृदपि न याच्यः कृशधनः' इति गुजरातीप्रिन्टिंगप्रेसमुद्रिते भर्तृहरिविरचिते नीतिशतके।। २.इतः परं हिताय सत्त्वसंघातस्य परितोषकरी गुरूणां संवर्द्धनी गुणान्तरस्य निदर्शनं जनानाम् इत्यधिकः पाठः Lसं. ॥३.जनानां विशिष्टलोकानां K. || १४० For Private Personal use only Jain Education International www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy