________________
सवृत्तिके | तेजोलेश्यादिका इति २, विशुद्धानि स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानीन्द्रियाणि अवधिश्च यस्य स तथा, तद्भावस्तत्त्वम् ३, प्रकृष्टानि प्रकर्षवन्ति धर्मबिन्दौ
भोगसाधनानि भोगोपकरणानि ४, तान्येव दर्शयति-दिव्यो निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रो विमाननिवहः विमानसंघात: ५, मनोहराणि: मन:प्रमोदप्रदानि अशोक-चम्पक-पुन्नाग-नागप्रभृतिवनस्पतिसमाकुलानि उद्यानानि वनानि ६, रम्या रन्तुं योग्या: जलाशया: वापी-हृद-सरोवरलक्षणा: ७, कान्ता: कान्तिभाज: अप्सरसो देव्य: ८, अतिनिपुणा: परिशुद्धविनयविधिविधायिन: किङ्करा प्रतीतरूपा एव ९, प्रगल्भः प्रौढो नाट्यविधि: तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षण: १०, चतुरोदारा: चतुरा: झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च उत्तमा: भोगाः शब्दादयः श्रोत्रादीन्द्रियविषयाः सप्तमोऽध्यायः ११, सदा सततं चित्ताहादो मन:प्रसादरूप: १२, अनेकेषां स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचित्ताचारसमाचरणचातुर्यगुणेन सुखहेतुत्वं संतोषनिमित्तभाव: १३, कुशल: परिणामसुन्दरोऽनुबन्धः सर्वकार्याणाम् १४, महाकल्याणकेषु जिनजन्म-महाव्रतप्रतिपत्त्यादिषु पूजाया: स्नात्र-पुष्पारोपण-धूपवासप्रदानादिना प्रकारेण करणं निर्मापणम् १५, तीर्थकराणां निजप्रभावावर्जितजगत्त्रयजन्तुमानसानां अमृतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमन:संतापानां पुरुषरत्नविशेषाणां सेवा वन्दन-नमन-पर्युपासन-पूजनादिनाऽऽराधना १६, सत: पारमार्थिकस्य धर्मस्य श्रुत-चारित्रलक्षणस्य श्रुतौ आकर्णने रतिः स्वर्गप्रभवतुम्बुरुप्रभृतिगान्धर्विकारब्धपञ्चमस्वरगीतश्रवणरतेरपि सकाशादधिकसंतोषलक्षणा १७, सदा सर्वकालं सुखित्वं बाह्यशयना-ऽऽसन-वस्त्रा-ऽलङ्कारादिजनितशरीरसुखयुक्तत्वम् १८॥८॥ तथा
तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्फललेऽन्वयेन उदग्रेसदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवधं जन्म ॥१॥४५२॥ इति।
तच्च्युतावपि देवलोकादवतारे, किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः, विशिष्टे देशे मगधादौ, विशिष्ट एव काले सुषमदुष्षमादौ स्फीते परिवारादिस्फीतिमति महाकुले इक्ष्वाक्कादौ निष्कलके असदाचारकलङ्कपङ्कविकले अन्वयेन पितृ-पितामहादिपुरुषपरम्परया, अत एव उदने उद्भटे, केनेत्याह- सदाचारेण देव-गुरु-स्वजनादिसमुचितप्रतिपत्तिलक्षणेन, आख्यायिका कथा तत्प्रतिबद्धा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तैर्युक्ते संबद्धे, किमित्याह- अनेकमनोरथापूरकं स्वजन-परजन-परिवारादिमनोऽभिलषितपूरणकारि, अत्यन्तनिरवचं शुभलग्न-शुभग्रहावलोकनादि१.सद्देशना'
Jain Education International
For Private & Personal use only
www.jainelibrary.org