________________
सवृत्तिके
धर्मबिन्दौ १३८
सप्तमोऽध्यायः
द्विविधं द्विरूपं फलं धर्मस्य, कथमित्याह-अनन्तर-परम्परभेदात् आनन्तर्येण परम्परया च ॥२॥
तत्रानन्तरफलमुपप्लवह्रासः ॥३॥४४६॥ इति । तत्र तयोर्मध्येऽनन्तरफलं दर्श्यते, तद्यथा उपप्लवह्रासः, उपप्लवस्य रागद्वेषादिदोषोद्रेकलक्षणस्य ह्रासः परिहाणिः ॥३॥ तथा
भावैश्वर्यवृद्धिः ॥४॥४४७।। इति । भावैश्वर्यस्य औदार्य-दाक्षिण्य-पापजुगुप्सादिगुणलाभलक्षणस्य वृद्धिः उत्कर्षः ॥४॥ तथा
जनप्रियत्वम् ।।५।।४४८।। इति । सर्वलोकचित्तालादकत्वम् ।।५।।
परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः ॥६॥४४९।। इति । यत् सुगतिजन्म यच्चोत्तमस्थानपरम्परया करणभूतया निर्वाणं तयोरवाप्ति: पुन: परम्पराफलमिति ॥६॥ अथ स्वयमेवैतत् सूत्रं भावयति
सुगतिर्विशिष्टदेवस्थानम् ॥७॥४५०।। इति । सुगतिः किमुच्यते इत्याह-विशिष्टदेवस्थानं सौधर्मादिकल्पलक्षणम् ॥७॥
तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणा: किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्ताहादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् ॥८॥४५१॥ इति ।
तत्र देवस्थाने उत्तमा प्रकृष्टा रूपसंपत् शरीरसंस्थानलक्षणा १, सत्यः सुन्दरा याः स्थिति-प्रभाव-सुख-द्युति-लेश्यास्ताभिर्योग: समागमः, तत्र स्थिति: पल्योपम-सागरोपमप्रमाणायुष्कलक्षणा, प्रभावो निग्रहा-ऽनुग्रहसामर्थ्यम्, सुखं चित्तसमाधिलक्षणम्, द्युतिः शरीरा-ऽऽभरणादिप्रभा, लेश्या १ परंपराभेदात् J.K.L. | २. कपू सिं० ॥ दृश्यतां पृ.१४२ पं०६, पृ०१७ पं० १३ ॥
१३८
For Private & Personal use only
Jain Education International
www.jainelibrary.org