________________
सवृत्तिके धर्मबिन्दौ
१३७
सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः। व्याख्यातः षष्ठोऽध्यायः । अथ सप्तमो व्याख्यायते, तस्य चेदमादिसूत्रम्
फलप्रधान आरम्भ इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं व्यासत: पुनरुच्यते ॥३७॥ इति। फलं प्रधानं यस्येति स तथा आरम्भो धर्मादिगोचरा प्रवृत्तिः इति अस्याः सल्लोकनीतित: शिष्टजनसमाचारात्, किमित्याह-संक्षेपात् परिमितरूपतया उक्तमस्य धर्मस्येदं फलं धनदो धनार्थिनां प्रोक्त: [पृ०३] इति श्लोकेन शास्त्रादौ, व्यासतो विस्तरेण पुनरुच्यते इदमिदानीमिति ॥१॥ ननु यदि व्यासत: पुनरिदानीं वक्ष्यते तत् किमिति संक्षेपात् पूर्व फलमुक्तमित्याशङ्क्याह
प्रवृत्त्यङ्गमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः ॥३८॥ इति । प्रवृत्त्यङ्गं प्रवृत्तिकारणम् अदः फलं श्रेष्ठं ज्यायः सत्त्वानां फलार्थिनां प्राणिविशेषाणां प्रायशः प्रायेण, चकारो वक्तव्यान्तरसमुच्चये, यद् यस्माद् आदौ प्रथमं सर्वत्र सर्वकार्येषु तत् तस्माद् युक्तं उचितम् अभिधातुं भणितुं संक्षेपादादाविति, आदावेव विस्तरेण फलभणने शास्त्रार्थस्य अतिव्यवधानेन श्रोतुस्तत्र नीरसभावप्रस नानादर एव स्यादिति । इदं पुनरिति यत् पुनर्व्यासत: फलं तदिदं वक्ष्यमाणम् ॥२॥ यथा
विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः ।।३९।। इति । विशिष्टं सौधर्मादिदेवलोकसंबन्धितया शेषदेवसौख्यातिशायि देवसौख्यं सुरशर्म यदिहैव वक्ष्यमाणम्, शिवसौख्यं मुक्तिशर्म, च: समुच्चये, यदिति प्राग्वत्, परं प्रकृष्टम्, तत् किमित्याह धर्मकल्पद्रुमस्य भावधर्मकल्पपादपस्य इदं प्रतीतरूपतया प्रथमानं फलं साध्यमाहुः उक्तवन्त: मनीषिणः सुधर्मस्वामिप्रभृतयो महामुनय इति ॥३॥
इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः ॥१॥४४४।। इति । सुगममेव ॥१॥
द्विविधं फलम्-अनन्तर-परम्परभेदात् ॥२॥४४५।। इति । १.महर्षय: K.L.J. किन्तु K१J१. मध्ये वृत्तौ च मनीषिणः इत्येव दृश्यते, अत: मनीषिणः इति पाठोऽत्रास्माभिरावृतः ॥२. परंपराभेदात् १Kमूर.विना ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org