________________
सवृत्तिके धर्मबिन्दौ १३५
षष्टोऽध्यायः
एतदपि कुत इत्याह
उपप्लवविगमेन तथावभासनादिति ॥७६॥४४३।। इति । उपप्लवविगमेन रागद्वेषाद्यान्तरोपद्रवापगमेन तथावभासनात्, तथा असमञ्जसस्याप्रवृत्तियोग्यतयाऽवभासनात् प्रतीते:, भावयतेः कर्तुः, इतीतरस्यामिवेतर इति निदर्शनमात्रमिति स्थितम्, इति: वाक्यपरिसमाप्तौ ॥७६॥ अथोपसंहरनाह
एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि ॥३४॥ इति । एवंविधस्य स्वावस्थोचितानुष्ठानारम्भिणो यते: साधोः प्रायो बाहुल्येन भावशुद्धः सकाशात् महात्मन: उक्तरूपस्य विनिवृत्ताग्रहस्य उपरतशरीरादिगोचरमूर्छादोषस्य उच्चैः अत्यर्थं मोक्षतुल्यो निर्वाणकल्पो भवोऽपि, मोक्षस्तावन्मोक्ष एवेत्यपिशब्दार्थः, हिः स्फुटम्, यदवाचि
निर्जितमद-मदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् [प्रशम० २३८] ॥२१८॥इति । अत्रोपपत्तिमाह
सद्दर्शनादिसंप्राप्ते: संतोषामृतयोगतः । भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा ॥३५।। इति ।। सद्दर्शनादीनाम् अध:कृतचिन्तामणि-कल्पद्रुम-कामधेनूपमानानां सम्यग्दर्शन-ज्ञान-चारित्राणां संप्राप्ने: लाभात् य: संतोषामृतयोगस्तस्मात्, मोक्षतुल्यो भवोऽपि हीति संबन्धः, उपपत्त्यन्तरमाह-भावैश्वर्यप्रधानत्वात्, भावैश्वर्येण क्षमा-मार्दवादिना प्रधान: उत्तमस्तद्धावस्तत्त्वं तस्मात् सकाशात् तदासन्नत्वतो मोक्षासनभावात्, तथेति हेत्वन्तरसूचक इति ॥ एतदेव समर्थयन्नाह
उक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ॥३६।। इति। उक्तं निरूपितं भगवत्याम्, किमित्याह-मासादिपर्यायवृद्धया मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य वृद्धौ सत्यां यावद् द्वादशभिर्मासै: परं प्रकृष्टं तेजः चित्तसुखलाभलक्षणं प्राप्नोति अधिगच्छति चारित्री विशिष्टचारित्रपात्रं पुमान्, परत्वमेव व्यनक्ति-सर्वदेवेभ्यो भवनवासिप्रभृतिभ्यो१ दृश्यताम् ६/७०॥
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org