SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १३४ स्वयंभ्रमणसिद्धेः ॥६९॥४३६।। इति । स्वयम् आत्मनैव भ्रमणसिद्धेः चक्रभ्रमतुल्यप्रवृत्तिसिद्धेः ॥६९॥ एतदेव भावयन्नाह भावयतिर्हि तथाकुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः ॥७॥४३७।। इति । भावयति: परमार्थसाधुः हिः यस्मात् तथा तत्प्रकारश्चारित्रवृद्धिहेतुरित्यर्थः कुशल: परिशुद्ध: आशय: चित्तमस्य, तद्भावस्तत्त्वम्, तस्माद, अशक्त: असमर्थोऽसमञ्जसप्रवृत्ती अनाचारसेवारूपायाम्, दृष्टान्तमाह- इतरस्यामिव भावतः समञ्जसप्रवृत्ताविव इतरः अभावयतिर्विडम्बकप्रायः षष्टोऽध्यायः ६९।। अत्रैव कञ्चिविशेषमा पत्तो अनाचारसेवारूपायाम्, दृष्टान्तमरित्यर्थः कुशलः परिशुद्धः आशय इति निदर्शनमात्रम् ॥७१॥४३८।। इति । इति एतदितरस्यामिवेतर इति यदुक्तं तन्निदर्शनमात्रं दृष्टान्त एव केवलः ॥७१।। अत एवाह न सर्वसाधर्म्ययोगेन ||७४३९।। इति । न नैव सर्वसाधर्म्ययोगेन सर्वैः धर्म: साधम्र्य सादृश्यं तद्योगेन ॥७२।। एतत्कुत इत्याह यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् ॥७३॥४४०॥ इति।। यते: साधोः तत्र असमञ्जसे अप्रवृत्ती निमित्तस्य सम्यग्दर्शनादिपरिणामस्य गरीयस्त्वात् असमञ्जसप्रवृत्तिनिमित्तान्मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जीवास्वभावभूतात् सकाशादतिगुरुत्वात् ॥७३॥ एतदेव भावयति वस्तुत: स्वाभाविकत्वात् ॥७४।४४१॥ इति । वस्तुतः परमार्थवृत्त्या स्वाभाविकत्वात् जीवस्वभावमयत्वात् सम्यग्दर्शनादेः समञ्जसप्रवृत्तिनिमित्तस्य ॥७४ा तथा सद्भाववृद्धेः फलोत्कर्षसाधनात् ॥७५॥४४२।।इति । सद्भावस्य शुद्धपरिणामरूपस्य या वृद्धिः उत्कर्षस्तस्याः फलोत्कर्षसाधनात् उत्कृष्टफलरूपमोक्षनिष्पादनात् । वृद्धिप्राप्तो हि शुद्धो भाव: सम्यग्दर्शनादिर्मोक्षं साधयति, न तु मिथ्यात्वादिः कदाचनापि, अत: परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरीयानिति ॥७५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy