SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १३३ Jain Education International इत्याशङ्क्याह तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यात् ||६६ ||४३३॥ इति। चारित्रिणां परिणतचारित्राणां तस्य चारित्रपरिणामस्य साधनानि यान्यनुष्ठानानि गुरुकुलवासादीनि तानि विषयो यस्य स तथा, तुः पुनरर्थे, उपदेशः प्रवर्त्तकवाक्यरूपो य: शास्त्रेषु गीयते सः । प्रतिपाती प्रतिपतनशीलो यतोऽसौ चारित्रपरिणामो वर्त्तते, कुत इत्याह- कर्मवैचित्र्यात्, विचित्राणि हि कर्माणि ततस्तेभ्यः किं न संभाव्यते ?, यतः पठ्यते कम्माई नूणं घणचिक्कणाई कढिणाई वज्जसाराई । णाणड्ढयं पि पुरिसं पंथाओ उप्पहं नेति ॥२१६॥ [ 1 ततः पतितोऽपि कदाचित् कस्यचित् चारित्रपरिणामः तथाविधाकर्षवशात् पुनरपि गुरुकुलवासादिभ्यः सम्यक्प्रयुक्तेभ्यः प्रवर्त्तत इति तत्साधनोपदेशो ज्यायानिति ॥ ६६ ॥ — तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातात् ||६७||४३४|| इति। तस्य चारित्रपरिणामस्य लब्धस्य यत् संरक्षणं पालनं तदर्थं यदनुष्ठानं तद्विषयः, चः समुच्चये, उपदेश: वज्जेज्जा संसग्गिं पासत्थाईहिं पावमित्तेहिं । कुज्जा उ अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ||२१७||[पञ्च. ७३०] इत्यादिरूपो यः स चक्रस्य कुलालादिसंबन्धिनः आदिशब्दादरघट्टयन्त्रादेश्च या प्रवृत्तिः भ्रमणरूपा तस्या अवसाने मन्दतारूपे यद् भ्रमाधानं पुनरपि दण्डयोगेन तीव्रत्वमाधीयते यथा तथा च (चा) रित्रवतोऽपि जन्तोः तथाविधवीर्यहासात् परिणाममन्दतायां तत्तीव्रताऽऽधानार्थमुपदेशः प्रवर्त्यत इति ॥६७॥ अथोपदेशनिष्फलत्वमभिधातुमाह माध्यस्थ्ये तद्वैफल्यमेव || ६८ || ४३५ || इति । माध्यस्थ्ये मध्यस्थभावे अप्रवृत्ति - प्रवृत्त्यवसानयोर्मध्यभागरूपे, प्रवृत्तौ सत्यामित्यर्थः, अस्य उपदेशस्य वैफल्यं विफलभावः ||६८|| इत्याह १. त्रिणां तस्य J ॥ २. कर्माणि नूनं घनचिक्कणानि कठिनानि वज्रसाराणि । ज्ञानाढ्यमपि पुरुषं पथ उत्पथं नयन्ति ३. यथा Jio विना नास्ति ॥। ४. प्रवर्त्तते मु. ॥५ तस्य मु.॥ For Private & Personal Use Only षष्टोऽध्यायः १३३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy