________________
सवृत्तिके
तस्यापि प्रवृत्तिमात्रस्य, किं पुनरन्यस्य भववैराग्यादेरित्यपिशब्दार्थः, तथापारम्पर्येण तत्प्रकारपरम्परया साधनत्वं साधनभावः, श्रूयते हि केचन धर्मबिन्दौ | पूर्व तथाविधभोगाभिलाषादिनाऽऽलम्बनेन द्रव्यप्रव्रज्यां प्रतिपद्य पश्चात् तदभ्यासेनैव व्यावृत्तातितीव्रचारित्रमोहोदया भावप्रव्रज्याप्रतिपत्तिकालाराधका:
संजाता:, यथा अमी एव गोविन्दादय इति ॥६१|| तर्हि प्रवृत्तिमात्रमपि कर्त्तव्यमापन्नमित्याह१३२
यतिधर्माधिकारश्चायमिति प्रतिषेधः ॥६२॥४२९।। इति । यतिधर्माधिकारः शुद्धसाधुधर्मप्रस्तावः पुनरयं प्रकान्तः इति एतस्माद्धेतोः प्रतिषेधो निवारणं प्रवृत्तिमात्रस्य, नहि यथा कथञ्चित् प्रवृत्त: सर्वोऽपि षष्टोऽध्यायः प्राणी भावधर्मप्रवृत्तिकालाराधको भवति, किन्तु घुणाक्षरवृत्त्या कश्चिदेवेति सर्वत्रौचित्येन प्रवर्तितव्यम् ॥६२।। अभ्युच्चयमाह
न चैतत् परिणते चारित्रपरिणामे ॥६३।।४३०।। इति । न च नैव एतद् अकालौत्सुक्यं परिणते अङ्गाङ्गीभावमागते चारित्रपरिणामे ॥६३।। कुत इत्याह
तस्य प्रसन्नगम्भीरत्वात् ॥६४॥४३१।। इति । तस्य चारित्रपरिणामस्य प्रसन्नत्वात्, शारदसमयसर:सलिलवत्, तथा गम्भीरत्वात् महासमुद्रमध्यवत् ॥६४।। एतदपि कथमित्याह
हितावहत्वात् ॥६५॥४३२।। इति। एकान्तेनैव हितकारित्वात् ॥६५॥
आह- यदि परिणतश्चारित्रपरिणामः प्रसन्नो गम्भीरस्तथा हितावहश्च तत् कथं तैस्तैर्वचनैस्तत्प्रतिपत्तावपि साधूनामनुशासनं शास्त्रेषु निरूप्यते? यथा
गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालविक्खाए ॥२१॥ अनिगृहणा बलमी सव्वत्थ पवत्तणं पसंतीए । नियलाभचिंतणं सइ अणुग्गहो मित्ति गुरुवयणे ॥२१४१॥
संवरनिच्छिउत्तं सुद्धंछज्जीवणं सुपरिशुद्धं । विहिसज्झाओ मरणादवेक्खणं जइजणुवएसो ॥२१५॥ [यो गशतके ३३,३४,३५] १.पुणाक्षरवृत्या K.।। २.हितकारकत्वात् L.J.||
१३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org