________________
सवृत्तिके
धर्मबिन्दौ
१३१
इति सदोचितम् ॥५७॥४२४॥ इति । इति एवं सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥५७॥ कुत इत्याह
तदा तदसत्त्वात् ॥५८॥४२५।। इति । तदा प्रवृत्तिकाले तस्य औत्सुक्यस्याऽसत्त्वाद् अभावात्, नहि सम्यगुपायप्रवृत्ता मतिमन्तः कार्योंत्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावात्, ततो यो यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमात् स्वसत्त्वमादर्शयति, यथा मृत्पिण्डादिर्घटस्य, नादर्शयति षष्टोऽध्यायः चात्मानमौत्सुक्यं कार्यप्रवृत्तिकाले मतिमतामिति कथं तत् तत्साधनभावं लब्धुमर्हतीति, अत एव पठ्यतेऽन्यत्र
अत्वरापूर्वकं सर्व गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥२११॥ [यो गदृष्टि० ५१] इति ॥५८॥ यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि किं साधनमित्याशझ्याह
प्रभूतान्येव तु प्रवृत्तिकालसाधनानि ॥५९॥४२६।। इति । प्रभूतान्येव तु बहून्येव न पुनरेकं किञ्चन प्रवृत्तिकालसाधनानि सन्तीति ॥५९॥ कुत इत्याह
निदानश्रवणादेरपि केषाञ्चित् प्रवृत्तिमात्रदर्शनात् ॥६०॥४२७।। इति । इह निदानशब्द: कारणमात्रपर्याय:, यथा किमत्र रोगे निदानमित्यादौ प्रयोगे, ततो निदानस्य भोगादिफलत्वेन दानादेः श्रवणाद् देशनायाम्, यथा
भोगा दानेन भवन्ति देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥२१२॥ [ ]
आदिशब्दात् तथाविधश्रुतादिलिप्सा-स्वजनोपरोध-बलात्कारादेः कारणात् केषाञ्चित् गोविन्दवाचक-सुन्दरीनन्दा-ऽऽर्यसुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणिप्रभृतीनां प्रवृत्तिमात्रस्य प्रवृत्तरेव केवलायाः तात्त्विकोपयोगशून्यायाः प्रथमं प्रव्रज्यायां दर्शनात् शास्त्रकारैरवलोकनात् ॥६०॥ ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्याप्रतिपत्तिकालहेतुरित्याशङ्कयाह
तस्यापि तथापारम्पर्यसाधनत्वम् ॥११॥४२८।। इति । १.एतेषां कथानकानि षष्ठे परिशिष्टे द्रष्टव्यानि ॥
१३१
Jain Education International
For Privale & Personal use only
www.jainelibrary.org