________________
सवृत्तिके धर्मबिन्दौ
१३०
वारि-वैश्वानरयोरिव अनयो: भगवच्चित्तावस्थान-किलष्टकर्मणो: विरोधात् परस्परबाधनात् ॥४९॥ पुनरपि प्रकृतोपसंहारमाह
इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् ॥५०॥४१७।। इति। एतत् प्राग्वत् ॥५०॥ कथमेतदित्याह
प्रायोऽतिचारासंभवात् ॥५१॥४१८॥ इति । यो हि स्वोचितं कर्म कर्तुमारभते न तस्य तत्रातिचार: संभवति, प्रायोग्रहणेन चेदमाह- तथाविधानाभोगदोषात् निकाचितक्लिष्टकर्मोदयाद्वा | कदाचित् कस्यचित् तथाविधसन्मार्गयायिनः पथिकस्येव कण्टक-ज्वर-दिग्मोहसमानोऽतीचार: स्यादपीति ॥५१॥ एतदपि कथमित्याह
___ यथाशक्ति प्रवृत्तेः ॥५२॥४१९॥इति । यथाशक्ति यथासामर्थ्य सर्वकार्येषु प्रवृत्तेः ॥५२।। इयमपि कथम् ? उच्यते
सद्भावप्रतिबन्धात् ॥५३॥४२०।। इति। सद्भावे शक्यतया सत्यरूपे कृत्येऽर्थे चित्तस्य प्रतिबन्धात् प्रतिबद्धत्वात् ॥५३॥ विपर्यये बाधकमाह
इतरथाऽऽर्तध्यानापत्तिः ॥५४॥४२१॥ इति । इतरथा अनुचितारम्भे आर्तध्यानस्य प्रतीतरूपस्य आपत्तिः प्रसनः स्यात् ।।५४ा कथमित्याह -
आर्तध्यानवाल चिकीर्षितकार्यारम्भाप्रस्तावे यायस्य तत्त्वतस्तत्त्वात् मायाह -
अकाले चिकीर्षितकार्यारम्भाप्रस्तावे यदौत्सुक्यं तत्कालोचितकार्यान्तरपरिहारेण तीव्रचिकीर्षालक्षणं तस्य तत्त्वत: परमार्थतः तत्त्वात् आर्तध्यानत्वात्, व्यवहारतस्तु धर्मध्यानत्वमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुक: प्रवृत्तिकालमपि कथं लप्स्यते इत्याशङ्क्याह
नेदं प्रवृत्तिकालसाधनम् ॥५६॥४२३।। इति । न नैवेदम् औत्सुक्यं प्रवृत्तिकालसाधनं कार्यस्य य: प्रवृत्तिकाल: प्रस्तावलक्षण: तस्य साधनं हेतुः, अनवसरोपहतत्वात्, नहि अत्यन्तं बुभुक्षवोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, किन्तु प्रस्ताव एवेति ॥५६॥ अत: किं विधेयमित्याह
१३०
Jain Education International
For Privale & Personal use only
www.jainelibrary.org