________________
१२९
षष्टोऽध्यायः
सवृत्तिके | क्रियायामेव चित्तावस्थानं विधेयम्, अन्यथा तत्क्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याहधर्मबिन्दौ
तदाज्ञाराधनाच्च तद्भक्तिरेव ॥४४॥४११।। इति । तस्य भगवत आज्ञाराधनात् पुनः तद्भक्तिरेव भगवद्भक्तिरेवेति ॥४४॥ एतदेव भावयितुमाह
__उपदेशपालनैव भगवद्भक्तिः , नान्या, कृतकृत्यत्वात् ॥४५॥४१२॥इति । प्रकटार्थमेतदिति ॥४५॥ एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशङ्क्याह
___ उचितद्रव्यस्तवस्यापि तद्रूपत्वात् ।।४६।।४१३।। इति । उचितस्य द्रव्यस्तवस्य
काले सुइभूएणं विसिठ्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ कायव्वा ॥२०९॥ [पञ्चा. ४१३] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येति अपिशब्दार्थः, सा उपदेशपालना रूपमस्य, तद्भावस्तत्त्वम्, तस्मात् ॥४६॥ कुत इत्याह
भावस्तवाङ्गतया विधानात् ॥४७॥४१४॥ इति । शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दरशिखरमारोढुमक्षमो धर्मं च चिकीर्षुः प्राणी तदा महतः सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा
जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥२१०॥ [ ] इति । एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह
हृदि स्थिते च भगवति क्लिष्टकर्मविगमः ॥४८॥४१५।। इति । प्रतीतार्थमेव, परं क्लिष्टं कर्म तदुच्यते यत् संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह
जलानलवदनयोर्विरोधात् ॥४९॥४१६।। इति । १.एतदपि भावयितुमाह J ॥ २: गुरुई K.L.II
१२९
an Education Integral
For Private & Personal Use Only
www.jainelibrary.org