________________
सवृत्तिके धर्मबिन्दौ
१२८
षष्टोऽध्यायः
इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् ॥३७॥४०४।। इति। इति एवमुक्तयुक्ते: मुमुक्षोः यते: सर्वत्र कृत्ये भावनायामेव उक्तलक्षणायां यल: आदर: श्रेयान् प्रशस्य: ।।३८|| कुत इत्याह
- तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः ॥३८॥४०५।। इति । तद्धावे भावनाभावे निसर्गत एव स्वभावादेव सर्वथा सर्वैः प्रकारैर्दोषाणां रागादीनाम् उपरतिसिद्धेः ॥३८।। अथ भावनाया एव हेतुमाह
___ वचनोपयोगपूर्वा विहितप्रवृत्तिर्योनिरस्याः ॥३९॥४०६।। इति । वचनोपयोग: शास्त्रे इदमित्थं चेत्थं चोक्तमित्यालोचनारूप: पूर्वो मूलं यस्याः सा तथा, का इत्याह- विहिते प्रत्युपेक्षणादौ प्रवृत्तिर्विहितप्रवृत्तिः योनि: उत्पत्तिस्थानम् अस्या: भावनाया भावनाज्ञानस्येत्यर्थः ॥३९।। कुत इत्याह
महागुणत्वाद् वचनोपयोगस्य ॥४०॥४०७।। इति। अत्यन्तोपकारित्वाद् वचनोपयोगस्य उक्तरूपस्य ॥४०॥ एतदेव भावयन्नाह
तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणम् ॥४१॥४०८।।इति । तत्र वचनोपयोगे सति हिः यस्मादचिन्त्येन चिन्तयितुमशक्यप्रभावेन चिन्तामणिना मणिविशेषेण कल्पस्य तुल्यस्य भगवत: पारगतस्य बहुमानगर्भ प्रीतिसारं स्मरणम् अनुध्यानं जायते ॥४१॥ कथमित्याह
भगवतैवमुक्तमित्याराधनायोगात् ॥४२॥४०९॥ इति । भगवता अर्हता एवं क्रियमाणप्रकारेण उक्तं निरूपितं प्रत्युपेक्षणादि इति अनेन रूपेण आराधनायोगाद् अनुकूलभावजननेनेति ॥४२।। एवं सति यत् सिद्धं तदाह
___ एवं च प्रायो भगवत एव चेतसि समवस्थानम् ॥४३॥४१०॥ इति । एवं च एतस्मिंश्च बहुमानगर्भे भगवत्स्मरणे सति प्रायो बाहुल्येन भगवत एव चेतसि समवस्थानं निवेशनम्, प्रायोग्रहणं च क्रियाकाले १.भावभजनेनेति || 'भाजननेनेति Kमू०, भावजननेनेति Kसं० ।।
१२
Jain Education International
For Private & Personal use only
www.jainelibrary.org