SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उपरागमात्रम्, तनाववबाहनाम, व त्वन्ततः ॥३॥ षष्टोऽध्यायः सवृत्तिके | दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥३१॥ कुत इत्याहधर्मबिन्दौ उपरागमात्रत्वात् ॥३२॥३९९॥ इति । उपराग एव केवल उपरागमात्रम्, तद्भावस्तत्त्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणति: ૧૨૭ सम्पद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो बोधमात्रमेव बहिरङ्गम्, न त्वन्त:परिणतिरिति।।३२॥ एतदपि कुत इत्याह दृष्टवदपायेभ्योऽनिवृत्तेः ॥३३॥४००।। इति । यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाद् ज्ञातेभ्यश्चानर्थेभ्यो निर्वतते एवं श्रुतमयप्रज्ञाप्रवृत्तावप्यपायेभ्योऽनिवृत्ते: अनिवर्तनात् ॥३३॥ ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसम्भविनीत्याह एतन्मूले च हिताहितयोः प्रवृत्ति-निवृत्ती।।३४॥४०१।। इति । एतन्मूले च भावनाज्ञानपूर्विक एव, चकारस्यैवार्थत्वात्, हिताहितयोः प्रतीतयोः यथासंख्य प्रवृत्ति-निवृत्ती विधि-प्रतिषेधरूपे भवत: मतिमताम्, नान्यज्ञानमूले इति ॥३४॥ इदमेवोपचिन्वन्नाह अत एव भावनादृष्टज्ञाताद विपर्ययायोगः ॥३५॥४०२।। इति । अत एव भावनामूलत्वादेव हिताहितप्रवृत्तिनिवृत्त्योः भावनादृष्टज्ञाताद् भावनया दृष्टं ज्ञातं च वस्तु प्राप्य विपर्ययायोग: विपर्यासाप्रवृत्तिलक्षणो जायते, यतो न मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात्, न चासौ भावनाज्ञाने समस्तीति ॥३५।। एतदपि कथं सिद्धमित्याह तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति ॥३६॥४०३।। इति । तद्वन्तो भावनाज्ञानवन्तः प्रमातारो हिः यस्मात् दृष्टापाययोगेऽपि प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्ती, किं पुनस्तदप्राप्तावित्यपिशब्दार्थः, अदृष्टापायेभ्यो नरकादिगतिप्रापणीयेभ्यो निवर्तमाना: सुवर्णमययवभक्षिक्रौञ्चजीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्त्वा: केचन दृश्यन्ते एव न न दृश्यन्ते अन्यरक्षादौ, अन्यस्य स्वव्यतिरिक्तस्य रक्षायां मरणादित्राणरूपायाम्, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥३६॥ निगमयन्नाह १२७ Jan Education International For Private Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy