SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १२६ कुत इत्याह भावानासारत्वात्तस्य ॥२७॥३९४।। इति। भावना निरुपाधिको जीववासकः परिणाम:, ततो भावना सारं प्रधानं यत्र तत्तथा, तद्भावस्तत्त्वं तस्मात्, तस्य उचितानुष्ठानस्य ॥२७॥ भावनामेव पुरस्कुर्वनाह- इयमेव प्रधानं निःश्रेयसाङ्गम् ॥२८॥३९५।।इति । षष्टोऽध्यायः इयमेव भावना प्रधानं निःश्रेयसाङ्गं निर्वाणहेतुः ॥२८॥ एतदपि कुत इत्याह एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेः ॥२९॥३९६।। इति । एतस्या भावनाया: स्थैर्यात् स्थिरभावात् हिः स्फुटं कुशलानां सकलकल्याणाचरणानां स्थैर्यस्य उपपत्ते: घटनात् ।।२९॥ इयमपि कुत इत्याह . भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ॥३०॥३९७।। इति । इह त्रीणि ज्ञानानि-श्रुतज्ञानं चिन्ताज्ञानं भावनाज्ञानं चेति, तल्लक्षणं चेदम् - वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥२०६॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।।२०७।। ऐदम्पर्यगतं यद् विध्यादौ यत्नवत् तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥२०८॥ [षो ड० ११।७,८,९] ततो भावनानुगतस्य भावनानुविद्धस्य ज्ञानस्य बोधविशेषस्य तत्त्वत: पारमार्थिकवृत्या ज्ञानत्वाद् अवबोधत्वात् ॥३०॥ एतदेव व्यतिरेकत: साधयन्नाह न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ॥३१॥३९८।। इति । न नैव हि: यस्मात् श्रुतमय्या प्रथमज्ञानरूपया प्रज्ञया बुद्धया कर्तृभूतया करणभूतया वा, भावनादृष्टज्ञातम् भावनया भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु ज्ञातम् अवबुद्धं भवति, नामेति विद्वज्जनप्रकटमेतत्, अयमभिप्राय:- यादृशं भावनाज्ञानेन वस्तु | १२६ For Private Personal use only www.jainelibrary.org Jain Education International
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy