________________
सवृत्तिके धर्मबिन्दौ
१२५
सम्भवति तद्वतोऽपि चारित्रम् ॥१९॥३८६।। इति । सम्भवति जायते तद्वतोऽपि अनाभोगमात्रानुचितप्रतिपत्तिमतोऽपि, किं पुनस्तदन्यस्येत्यपिशब्दार्थः, चारित्रं सर्वविरतिरूपम् ॥१९॥ अत्रैव विशेषमाह
अनभिनिवेशवांस्तु तद्युक्त: खल्वतत्त्वे ॥२०॥३८७।। इति । अनभिनिवेशवान् निराग्रहः पुनस्तद्युक्तश्चारित्रयुक्तो जीवोऽनाभोगेऽपि खलु निश्चयेन अतत्त्वे प्रवचनबाधितार्थे ।।२०।। एतदपि कुत इत्याह
स्वस्वभावोत्कर्षात् ॥२१॥३८८।। इति । स्वस्य अनौपाधिकत्वेन निजस्य स्वभावस्य आत्मतत्त्वस्य उत्कर्षात् वृद्धः, चारित्रिणो हि जीवस्य छद्मस्थतया क्वचिदर्थे अनाभोगेऽपि गौतमादिमहामुनीनामिव तथाविधात्यन्तिकबाधककर्माभावेन स्वस्वभाव: सम्यग्दर्शनादिरूपो नापकर्ष प्रतिपद्यत इति ॥२१॥ अयमपि कुत इत्याह
मार्गानुसारित्वात् ॥२२॥३८९॥ इति । मार्गस्य सम्यग्दर्शनादेर्मुक्तिपथस्यानुवर्तनात् ॥२२॥ तदपि
__ तथारुचिस्वभावत्वात् ॥२३॥३९०॥इति । तथा तत्प्रकारा मार्गानुरूपत्वेन या रुचिः श्रद्धा तद्रूपत्वात् ॥२३॥ एतदपि
श्रवणादौ प्रतिपत्तेः ॥२४॥३९१॥ इति। स्वयमेव शास्त्रश्रवणे आदिशब्दादन्येन वा प्रेरणायां कृतायां प्रतिपत्ते: अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानमित्यङ्गीकरणात् ।।२४॥ इयमपि
असदाचारगर्हणात् ॥२५॥३९२॥ इति । असदाचारस्य अनुचितानुष्ठानस्य गर्हणात् तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥२५।। अथ प्रस्तुतमेव निगमयन्नाह
इत्युचितानुष्ठानमेव सर्वत्र श्रेयः ॥२६॥३९३॥ इति । इति एवं अनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव सर्वत्र गृहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च श्रेयः प्रशस्यं वर्तते ॥२६॥
१२५
Main Education International
For Private & Personal use only
www.jainelibrary.org