________________
सवृत्तिके धर्मबिन्दौ
१२४
उदग्रस्य उत्कटस्य विवेकस्य विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात् सकाशात्, किमित्याह- रत्नत्रयाराधनात्, रत्नत्रयस्य सम्यग्दर्शनादे: आराधनात् निष्पादनात्, उचितानुष्ठाने हि प्रारब्धे नियमाद् रत्नत्रयाराधक उदग्रो विवेको विजृम्भते इत्येतत् प्रधानं कर्मक्षयकारणमिति ॥१४॥ अत्रैव व्यतिरेकमाह
अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् ॥१५||३८२।। इति । अननुष्ठानम् अनुष्ठानमेव न भवति अन्यत् विलक्षणं उचितानुष्ठानात्, तर्हि कीदृशं तदित्याह- अकामनिर्जराङ्गम्, अकामस्य निरभिलाषस्य षष्टोऽध्यायः तथाविधबलीवर्दादेरिव या निर्जरा कर्मक्षपणा तस्या अङ्गं निमित्तम्, न तु मुक्तिफलाया निर्जरायाः, कुत इत्याह- उक्तविपर्ययात् उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥१५।। एतदेव भावयन्नाह
निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् ।१६||३८३।। इति । निर्वाणफलं मुक्तिकार्यम् अत्र जिनवचने तत्त्वत: परमार्थवृत्त्या, अनुषङ्गतः स्वर्गादिफलभावेऽपि, अनुष्ठानं सम्यग्दर्शनाद्याराधनारूपं प्रोच्यत इति ।।१६।। यदि नामैवं ततोऽपि किमित्याह
न चासदभिनिवेशवत्तत् ॥१७॥३८४।। इति । न च नैव असुन्दराग्रहयुक्तं तत् निर्वाणफलमनुष्ठानम्, असदभिनिवेशो हि निष्ठुरेऽपि अनुष्ठाने मोक्षफलं प्रतिबध्नातीति तद्वयवच्छेदार्थमुक्तं न चासदभिनिवेशवत्तदिति ॥१७॥ नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशङ्क्याह
अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् ॥१८॥३८५।। इति । अनुचितस्यानुष्ठानस्य प्रतिपत्तौ अभ्युपगमे नियमाद् अवश्यंतया असदभिनिवेश: उक्तरूपः, असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य, अपवादमाह- अन्यत्र अनाभोगमात्रादिति, अन्यत्र विनाऽनाभोग एव अपरिज्ञानमेव केवलम् अभिनिवेशशून्यमनाभोगमात्रम्, तस्मादनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति भाव इति ॥१८॥ एवं सति किं सिद्धमित्याह१.L.Jमू० विना-निवेशभाव इति सं०/निवेश इति ॥
त्यामादसदभिनिवेशोऽन्यत्राभिनिवेशः उक्तरूपा, बलम् अभिनिवेशशून्य
Jain Education International
For Private & Personal use only
www.jainelibrary.org