SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके | धर्मबिन्दौ १२३ षष्टोऽध्यायः प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धः प्रायोपवेशनवच्छेयान्निरपेक्षयतिधर्मः ॥११॥३७८॥ इति । नवादिपूर्वधरस्य तु यथोदितगुणस्यापि 'तंत्र कल्याणाशयस्य' इत्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, साधुशिष्यनिष्पत्ती आचार्योपाध्याय-प्रवर्ति-स्थविर-गणावच्छेदकलक्षणपदपञ्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां साध्यान्तराभावत: साध्यान्तरस्य निरपेक्षधमपिक्षया आर्यापरिपालनादिरूपस्य अभावत: अभवनेन सति विद्यमाने कायादिसामर्थ्य वज्रर्षभनाराचसंहननशरीरतया वज्रकुड्यसमानधृतितया च महति काय-मनसोः समर्थभावे सति सद्वीर्याचारासेवनेन, सतो विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य सामर्थ्यागोपनलक्षणस्य निषेवणेन, तथा प्रमादजयाय, तथा तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य निद्रादे: जय: अभिभवस्तदर्थं सम्यक् शास्त्रोक्तनीत्या तपः-सत्त्व-सूत्रैकत्व-बललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा उचितसमये तिथि-वार-नक्षत्र-योग-लग्नशुद्धिलक्षणे आज्ञाप्रामाण्यतः आजैवात्रार्थे प्रमाणमिति परिणामात् तथैव प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव योगवृद्धः सम्यग्दर्शन-ज्ञानचारित्रलक्षणधर्मव्यापारवृद्धेः प्रायोपवेशनवत्, प्रायोपवेशनम् अनशनम्, तद्वत् पर्यन्तकालकरणीयानशनक्रियातुल्य इत्यर्थः, श्रेयान् अतिप्रशस्य: निरपेक्षयतिधर्मो जिनकल्पादिरूपः कल्पादिग्रन्थप्रसिद्धस्वरूपो वर्तत इति ॥११॥ तथा तत्कल्पस्य च परार्थलब्धिविकलस्य ॥१२॥३७९।। इति । ___ तत्कल्पस्य निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्य अन्यस्यापि, चशब्दः समुच्चये, परं केवलं परार्थलब्धिविकलस्य तथाविधान्तरायादिकर्मपारतन्त्र्यदोषात् परार्थलब्ध्या साधुशिष्यनिष्पादनादिसामर्थ्यलक्षणया विकलस्य, श्रेयान् निरपेक्षयतिधर्म इत्यनुवर्तते ॥१२॥ अत्र हेतुमाह उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् ॥१३॥३८०॥ इति । उचितानुष्ठानं हि यस्मात् प्रधानम् उत्कृष्ट कर्मक्षयकारणमिति ॥१२॥ एतदपि कुत इत्याह उदग्रविवेकभावाद् रत्नत्रयाराधनाद ॥१४||३८१।। इति । २.दृश्यतां ६।२।। २.आधसंहननत्रययुक्ततया सं० LI १२३ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy