________________
सवृत्तिके धर्मबिन्दौ
१२२
परार्थस्य परोपकारलक्षणस्य सम्पादनं करणं तदुपपत्तेः, स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थं सम्पादयितुं यस्मादुपपद्यत इति ॥५॥ यदि नामैवं ततोऽपि किमित्याह
Jain Education International
तस्यैव च गुरुत्वात् ॥ ६ ॥ ३७३ ॥ इति ।
तस्य परार्थसम्पादनस्य एव, चेत्यवधारणे, गुरुत्वात् सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥ ६॥ एतदपि कथमित्याहसर्वथा दुःखमोक्षणात् ||७|| ३७४॥ इति ।
सर्वथा सर्वैः प्रकारैः स्वस्य परेषां चेत्यर्थः दुःखानां शारीर-मानसरूपाणां मोचनात् ॥७॥ तथासन्तानप्रवृत्तेः ||८|| ३७५ ।। इति ।
परार्थसम्पादनात् सन्तानस्य शिष्य-प्रशिष्यादिप्रवाहरूपस्य प्रवृत्तेः ॥८॥ तथायोगत्रयस्याप्युदग्रफलभावात् ।। ९।। ३७६ ।। इति ।
योगत्रयस्यापि मनोवाक्कायकरणव्यापाररूपस्य परार्थसम्पादने क्रियमाणे, न पुनरेकस्यैवेत्यपिशब्दार्थः, उदग्रफलभावात्, उदग्रस्य प्रकारान्तरेणानुपलभ्यमानत्वेनात्युत्तमस्य फलस्य कर्मनिर्जरालक्षणस्य भावात् नहि यथा देशनायां सर्वात्मना व्याप्रियमाणं मनोवाक्कायत्रयं फलमाप्नोति तथाऽन्यत्र कृत्यान्तर इति ॥९॥ तथा
निरपेक्षधर्मोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसम्पादकाभावे प्रतिपत्तिप्रतिषेधाच्च ||१०||३७७|| इति ।
निरपेक्षधर्मोचितस्यापि, किं पुनस्तदनुचितस्येत्यपिशब्दार्थः, तत्प्रतिपत्तिकाले निरपेक्षधर्मात्रीकरणसमये परपरार्थसिद्धौ परेषां परार्थस्य सम्यग्दर्शनादेः प्रधानप्रयोजनस्य सिद्धौ साध्यायां विषये तदन्यसम्पादकाभावे तस्मात् निरपेक्षयतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसम्पादकस्याभावे प्रतिपत्तिप्रतिषेधाद् अङ्गीकरणनिवारणात्, चकारो हेत्वन्तरसमुच्चये, तस्यैव च गुरुत्वम् [सू० ३७३]इति सण्टक इति ॥ १०॥
इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाह
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्ये सद्वीर्याचारासेवनेन तथा
For Private & Personal Use Only
षष्टोऽध्यायः
१२२
www.jainelibrary.org