SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ । धर्मबिन्दौ । सवृत्तिके १२१ तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवत: विशुद्धयमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव ॥२॥३६९।। इति। ___ तत्रेति विषयविभागानुवर्णनोपक्षेपे कल्याणाशयस्य भावारोग्यरूपमुक्तिपुरप्रापकपरिणामस्य, श्रुतरत्नमहोदधेः प्रवचनमाणिक्यपरमनीरनिधेः, उपशमादिलब्धिमत: उक्तलक्षणोपशमादिलब्धिसमन्वितस्य, परहितोद्यतस्य सर्वजगज्जीवजातहिताधानधनस्य, अत्यन्तगम्भीरचेतसः षष्टोऽध्यायः हर्ष-विषादादावतिनिपुणैरप्यनुपलब्धचित्तविकारस्य, अत एव प्रधानपरिणते: सर्वोत्तमात्मपरिणामस्य, विधूतमोहस्य समुत्तीर्णमूढभावतन्द्रामुद्रस्य, परमसत्त्वार्थकर्तुः निर्वाणावन्ध्यबीजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः, सामायिकवत: माध्यस्थ्यगुणतुलारोपणवशसमतापनीतस्वजन-परजनादिभावस्य, विशुद्धयमानाशयस्य वलक्षपक्षक्षपापतिमण्डलस्येव प्रतिकलमवदायमानमानसस्य, यथोचितप्रवृत्ते: प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य, अत एव सात्मीभूतशुभयोगस्य अय:पिण्डस्येव वह्निना शुभयोगेन सह समानीभूतात्मनो यतिविशेषस्य श्रेयान् अतिप्रशस्य: सापेक्षयतिधर्म एव, नेतर इति ॥२॥ कुत इत्याह वचनप्रामाण्यात् ॥३॥३७०।। इति । भगवदाज्ञाप्रमाणभावात् ॥३॥ एतदपि कुत इत्याह सम्पूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् ॥४॥३७१।। इति । सुगममेव, प्रतिषेधश्च गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहनो सुआभिगमो ॥२०५॥ [पञ्चा० १८.५] इति वचनादवसीयते ॥४॥ एषोऽपि किमर्थमित्याह परार्थसम्पादनोपपत्तेः ॥५॥३७२॥इति । १.प्रारब्धस्वप्रयोजनस्य L॥ १२१ www.jainelibrary.org Jain Education Inm For Private & Personal use only onal
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy