________________
सवृत्तिके धर्मबिन्दौ १२०
षष्टोऽध्यायः
अथ षष्ठोऽध्यायः व्याख्यातः पञ्चमोऽध्यायः,अधुना षष्ठो व्याख्यायते, तस्य चेदमादिसूत्रम्
आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः । साध्यसिद्धयङ्गमित्यस्माद्यतिधर्मो द्विधा मतः ॥३१॥ आशयस्य चित्तधृतिलक्षणस्य आदिशब्दात् श्रुतसम्पत्ते: शरीरसंहननस्य परोपकारकरणशक्तेश्च उचितं योग्यं ज्याय: अतिप्रशस्यमनुष्ठानं जिनधर्मसेवालक्षणं सूरयः समयज्ञाः विदुः जानन्ति, कीदृशमित्याह- साध्यसिद्धयङ्गम्, साध्यस्य सकलक्लेशक्षयलक्षणस्य सिद्धयङ्गं निष्पत्तिकारणम् इति अस्मात् कारणाद् यतिधर्मो द्विधा मत: सापेक्षयतिधर्मतया निरपेक्षयतिधर्मतया चेति ॥१॥ साध्यसिद्ध्यङ्गत्वमेव भावयति -
समग्रा यत्र सामग्री तदक्षेपेण सिद्धयति । दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् ॥३२॥ समग्रा परिपूर्णा यत्र कार्ये सामग्री समग्रसंयोगलक्षणा भवति तत् कार्यम् अक्षेपेण अविलम्बन सिद्धयति निष्पद्यते, अन्यथा सामग्रीसमग्रताऽयोगात्, अत्रैव व्यतिरेकमाह- दवीयसाऽपि अतिचिररूपतया दूरतरवर्तिनाऽपि कालेन वैकल्ये तु सामग्रिकाया विकलतायां पुनर्न जातुचित् न कदाचिदपीति ॥२।। एवं सति यत् कर्तव्यं तदाह
तस्माद् यो यस्य योग्य: स्यात् तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥३३॥ तस्मात् कारणाद् यो यति: यस्य सापेक्षयतिधर्म-निरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य योग्य: समुचित: स्याद् भवेत् तद् अनुष्ठानं तेन योग्येन आलोच्य निपुणोहापोहयोगेन परिभाव्य सर्वथा सर्वैरुपाधिभिरारब्धव्यम् आरम्भणीयम् उपायेन तद्गतेनैव सम्यग् यथावत्, एष योग्यारम्भलक्षण: सतां शिष्टानां नयो नीतिरिति ॥३॥
इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः॥१॥३६८॥ इति । प्रतीतार्थमेवेति ॥१॥ १.तस्य चेदमादिसूत्रम् नास्ति K.J.|| २.चित्तवृति"K | चित्तवृत्ति ।।
१२०
Jain Education International
For Private & Personal use only
www.jainelibrary.org