SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ११९ पञ्चमोऽध्यायः ध्यानकतानत्वमिति ॥९८॥३६७।। इति । ध्याने धर्मध्यानादावेक एव तान: चित्तप्रसर्पणरूपो यस्य स तथा, तद्भावस्तत्त्वम्, इतिशब्द: समाप्तौ ॥ अथोपसञ्जिहीर्षुराह सम्यग् यतित्वमाराध्य महात्मानो यथोदितम् । सम्प्राप्नुवन्ति कल्याणमिहलोके परत्र च ॥२८॥ इति । सम्यग् यतित्वम् उक्तरूपमाराध्य समासेव्य महात्मानो जना यथोदितं यथा शास्त्रे निरूपितम्, किमित्याह- सम्प्राप्नुवन्ति लभन्ते कल्याणं भद्रम्, क्वेत्याह- इहलोके परत्र चेति प्रतीतरूपमेव ॥१॥ एतदेव विवरीषुराह क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ॥२९।। इति ।। क्षीरं दुग्धं श्रोतृजनकर्णपुटेषु आश्रवति क्षरति भाषमाणो यस्यां लब्धौ सा क्षीराश्रवा, आदिशब्दान्मध्वाश्रवा सर्पिराश्रवा अमृताश्रवा चेत्यादिको यो लब्योघो लब्धिसङ्घातः तम् आसाद्य उपलभ्य परमाक्षयं परमं सर्वसुन्दरं अक्षयं च अनेकदा उपजीव्यमानमपि अनुपरमस्वभावम्, किमित्याहकुर्वन्ति विदधति भव्यसत्त्वानाम् उपकर्तुं योग्यानाम् उपकारं सम्यक्त्व-ज्ञान-चारित्रलाभलक्षणम् अनुत्तमं निर्वाणैकफलत्वेन अन्योपकारातिशा यिनमिति ॥२॥ तथा · मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतात् ॥३०॥ इति ।। मुच्यन्ते परिहीयन्ते, च: समुच्चये, आशु शीध्र संसारात् भवात्, कीदृशादित्याह- अत्यन्तम् अतीव, सङ्गतं युक्तम् अञ्जः स्वरूपं यस्य स तथा, तत्प्रतिषेधादसमञ्जसस्तस्मात्, अत एव जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतात्, जन्मना प्रादुर्भावेन मृत्युना मरणेन जरया स्थविरभावलक्षणया व्याधिना कुष्ठादिरूपेण शोकेन इष्टवियोगप्रभवमनोदुःखविशेषेण आदिशब्दाच्छीत-वातादिभिरुपद्रवैरुपद्रुतात् विह्वलतामानीतादिति ||३|| इति श्री मुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविधिः पञ्चमोऽध्यायः समाप्तः ।।५।। १:तिशायनमिति K॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy