SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके । धर्मबिन्दौ ११८ पञ्चमोऽध्यायः बहुगुणं च कार्यमारभते किन्तूत्सर्गपथप्राप्तं केवलगुणमयमेवेति ॥९२।। तथा ग्रामैकरात्रादिविहरणम् ॥९॥३६२।। इति ।। ग्रामे प्रतीतरूपे उपलक्षणत्वान्नगरादौ च एका चासौ रात्रिश्चेत्येकरात्रः, आदिशब्दात् द्विरात्रस्य मासकल्पस्य च ग्रहः, तेन विहरणम्, किमुक्तं भवति? यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामे ज्ञातः सन् स एकरात्रम् अज्ञातश्च एकरात्रं द्विरात्रं वा वसति, यथोक्तम्-नाएगरा यवासी एगं व दुगं व अन्नाए। [पञ्चा० १८५८] जिनकल्पिक-यथालन्दकल्पिक-शुद्धपरिहारिका ज्ञाता अज्ञाताश्च मासमिति ॥९३।। तथा नियतकालचरिता ॥९४॥३६३॥ इति । नियते तृतीयपौरुषीलक्षणे काले भिक्षाद्यर्थं सञ्चरणम्, यथोक्तम्-भिक्खा पंथो य तइयाए ॥२०४॥ [बृहत्कल्पभाष्ये गा० १४१४,१४३०] इति । तथा प्राय प्रस्थानम् ॥९५॥३६४।। इति । प्रायो बाहुल्येन ऊर्ध्वस्थानं कायोत्सर्गः ॥१५॥ तथा देशनायामप्रबन्धः ॥९६||३६५।। इति । देशनायां धर्मकथारूपायां धर्मं श्रोतुमुपस्थितेष्वपि तथाविधप्राणिषु अप्रबन्धः अभूरिभावः, एंगवयणं दुवयणं वो [ ] इति वचनप्रामाण्यात् ॥९६॥ तथा सदाऽप्रमत्तता ॥९७||३६६।। इति । सदा दिवा रात्रौ चाप्रमत्तता निद्रादिप्रमादपरिहारः ॥९७। तथा१.जाते एकरात्रवासी एकं वा द्विकं वा अज्ञाते ॥ २.भिक्षा पन्थाश्च तृतीयस्याम् ।। ३.उर्द्ध स्थानं ॥४.एकवचन द्विवचनं वा (?च) ॥ ५.अत्र 'वेति वचन इति पाठ उपलभ्यते हस्तलिखितादर्शषु । अत्र चेति इत्यपि पठितुं शक्यते, ततः 'च' [ ] इति पाठोऽप्यत्र स्यात् ।। ११८ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy