________________
विशथापि अत्यन्तदुर्धरत्वयातके वा विष-विशाधना देहत्याग इति
पञ्चमोऽध्यायः
सवृत्तिके | ॥८५॥ तथाधर्मबिन्दौ
विशुद्धं ब्रह्मचर्यम् ॥८६॥३५५।। इति । विशेषेण अतिनिबिडब्रह्मचर्यगुप्तिविधानरूपेण शुद्धं ब्रह्मचर्य प्रतीतमेव विधेयम्, यदत्र संलेखनाधिकारे विशुद्धब्रह्मचर्योपदेशनं तद्वेदोदयस्य ११७ क्षीणशरीरतायामपि अत्यन्तदुर्धरत्वख्यापनार्थमिति ॥८६॥ अथ संलेखनानन्तरं आशुघातके वा विष-विशूचिकादौ दोषे सति यद्विधेयं तदाह
विधिना देहत्याग इति ॥८७||३५६।। इति । विधिना आलोचन-व्रतोच्चार-परक्षामणा-ऽनशन-शुभभावना-पञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्यागः परित्यजनम्, पण्डितमरणाराधनमित्यर्थः, इतिशब्द: परिसमाप्ती, इत्युक्तः सापेक्षयतिधर्मः ॥८७।। अथ द्वितीयधर्मप्रस्तावनायाह
निरपेक्षयतिधर्मस्तु ।।८८॥३५७।। इति । निरपेक्षयतीनां धर्मः पुनरयं वक्ष्यमाणः ॥८८। तमेवाह
वचनगुरुता ॥८९॥३५८।। इति । वचनमेव आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा, तद्भावस्तत्ता ।।८९।। तथा
अल्पोपधित्वम् ॥९०॥३५९॥इति । अल्प: स्थविरापेक्षया उपधि: वस्त्र-पात्रादिरूपो यस्य स तथा, तद्भावस्तत्त्वम्, उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥९०।। तथा
निष्प्रतिकर्मशरीरता ॥९॥३६०।। इति । निष्प्रतिकर्म तथाविधग्लानाद्यवस्थायामपि प्रतीकारविरहितं शरीरं यस्य स तथा, तद्भावस्तत्त्वम् ॥९१।। अत एव
अपवादत्यागः ॥९॥३६१।। इति । अपवादस्य उत्सर्गापेक्षयाऽपकृष्टवादस्य त्याग: कार्यः, न हि निरपेक्षो यति: सापेक्षयतिरिव उत्सर्गासिद्धावपवादमपि समालम्ब्य अल्पदोषं
Jan Education Internal
For Private & Personal Use Only
www.jainelibrary.org