SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ११६ विधिवद् विधियुक्तं यथा भवति, पालनमभिग्रहाणामिति ॥८१॥ तथायथार्हं ध्यानयोगः ||८२|| ३५१ ।। इति । यथार्हं यो यस्य योग्यस्तदनतिक्रमेण ध्यानयोगो ध्यानयोर्धर्म (र्म्य) शुक्ललक्षणयोर्योगः, अथवा यथार्हमिति यो देशः कालो वा ध्यानस्य योग्यस्तदनुल्लनेनेति ॥८२॥ तथा अन्ते संलेखना ||८३ || ३५२ ।। इति । अन्ते आयुःपर्यन्ते विज्ञाते सति संलेखना शरीर कषाययोस्तपोविशेष- भावनाभ्यां कृशीकरणम् ॥८३॥ परमत्रसंहननाद्यपेक्षणम् ||८४|| ३५३ ।। इति । संहननस्य शरीरसामर्थ्यलक्षणस्य आदिशब्दात् चित्तवृत्तेः सहायसम्पत्तेश्च अपेक्षणम् आश्रयणं कार्यम्, संहननाद्यपेक्ष्य संलेखना विधेयेति भाव इति ॥८४॥ नन्वनयोर्द्रव्यसंलेखना - भावसंलेखनयोः काऽत्यन्तमादरणीयेत्याह भावसंलेखनायां यत्नः ||८५ || ३५४ || इति । भावसंलेखनायां कषायेन्द्रियविकारतुच्छीकरणरूपायां यत्नः आदरः कार्यः, द्रव्यसंलेखनाया अपि भावसंलेखनार्थमुपदेशात्, अयमत्र भावःइह मुमुक्षुणा भिक्षुणा प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेयम्, मरणकालपरिज्ञानोपायाश्च आगम-देवतावचन- सुप्रतिभा- तथाविधानिष्टस्वप्नदर्शनादयोऽनेके शास्त्र - लोकप्रसिद्धा इति, ततो विज्ञाते मरणकाले पूर्वमेव द्वादश वर्षाणि यावदुत्सर्गत: संलेखना कार्या, तत्र च चत्तारि विचित्ताइं विगईनिज्जूहियाइं चत्तारि । संवच्छरे य दोण्णि उ एगंतरियं च आयामं ॥ २०१ || नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिट्ठं तवोकम्मं ॥ २०२॥ वासं कोडीसहियं आयामं काउमाणुपुवीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ||२०३॥ [पञ्च०१५७४-५-६] यदा तु कुतोऽपि संहननादिवैगुण्यान्न शक्यते इयान् संलेखनाकालः साधयितुं तदा मासवर्षपरिहाण्या जघन्यतोऽपि षण्मासान् यावत् संलेखना कार्या, असंलिखितशरीरकषायो हि भिक्षुरनशनमधिष्ठितः सहसा धातुक्षये समुपस्थिते न सुगतिफलं तथाविधं समाधिमाराधयितुं साधीयान् स्यादिति For Private & Personal Use Only Jain Education International पञ्चमोऽध्यायः ११६ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy