________________
सवृत्तिके | धर्मबिन्दौ
११५
पञ्चमोऽध्यायः
परीषहाणां क्षुत्पिपासादीनां द्वाविंशतेरपि जय: अभिभवः, तत्र दर्शनपरीषहस्य मार्गाच्यवनार्थं शेषाणां च कर्मनिर्जरार्थं कार्य इति, यथोक्तम्-मार्गाच्यवन-निर्जरार्थं परिषोढव्या: परीषहाः [तत्त्वा०९।८] इति ॥७६।। तथा
उपसर्गातिसहनम् ॥७७॥३४६। इति । उपसृज्यन्ते पीडापरिंगतैवेद्यन्ते ये ते उपसर्गाः, ते च दिव्य-मानुष-तैरश्चा-ऽऽत्मसंवेदनीयभेदाच्चतुर्धा, तेषामतिसहनम् अभिभवनम्, अन्यथा व्यसनमयत्वेन संसारस्य तेषामनतिसहने मूढमतित्वप्रसङ्गात्, यथोक्तम्
संसारवर्त्यपि समुद्विजते विपद्भयो यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा संसृज्यतां किमपरं सलिलं विहाय ॥१९८॥ [ ] इति । तथा
सर्वथा भयत्यागः ॥७८॥३४७।। इति । सर्वथा सर्वैः प्रकारैरिहलोक-परलोकभयादिभिर्भयस्य भीतेस्त्यागः परित्यागः, निरतिचारयतिसमाचारवशोपलब्धसमुत्कृष्टोपष्टम्भतया मृत्योरपि नोद्विजितव्यम्, किं पुनरन्यभयस्थानेभ्य इति, अत एवोक्तमन्यत्रप्रायेणाकृतकृत्यत्वान्मृत्योरुद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् ॥१९९॥ [ ||७८|| तथा
तुल्याश्म-काञ्चनता ॥७९॥३४८।। इति । तुल्ये समाने अभिष्वङ्गाविषयतया अश्म-काञ्चने उपल-सुवर्णे यस्य स तथा, तद्भावस्तत्ता ॥७९।। तथा
अभिग्रहग्रहणम् ।।८०||३४९।। इति । अभिग्रहाणां द्रव्य-क्षेत्र-काल-भावभेदभिन्नानाम्
लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण व दव्वेण व अह दव्वाभिग्णहो एस ॥२००॥ [पञ्च० २९८] इत्यादिशास्त्रसिद्धानां ग्रहणम् अभ्युपगम: कार्यः ।।८०॥ तथा
विधिवत् पालनम् ।।८।।३५०॥इति ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org