________________
वृत्त धर्मबिन्दौ
११४
धर्मोत्तरो योगः ||७० ||३३९ ।। इति ।
धर्मोत्तरो धर्मफलः सर्व एव योगो व्यापारो विधेयः, न पुनरट्टट्टहास - केलिकिलत्वादिः पापफल इति ॥७०॥ तथा — आत्मानुप्रेक्षा ।।७१ ||३४०॥ इति । आत्मन: स्वस्य अनुप्रेक्षा पर्यालोचना भावप्रत्युपेक्षारूपा, यथा
किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥१९६॥ [ओघ नि०२६३] त्ति । एवमात्मन्यनुप्रेक्षिते यत् कृत्यं तदाह
उचितप्रतिपत्तिः ॥७२ ।। ३४१ ।। इति ।
उचितस्य गुणबृंहकस्य प्रमादनिग्राहिणश्चानुष्ठानस्य प्रतिपत्तिः अभ्युपगम इति ॥ ७२॥ तथाप्रतिपक्षासेवनम् ||७३|| ३४२ ।। इति ।
यो हि यदा येन दोषेण बाध्यमानो भवति तेन तदा तत्प्रतिपक्षभूतस्य गुणस्यासेवनं कार्यम्, हिमपातपीडितेनेवानेरिति ॥७३॥ तथाआज्ञानुस्मृतिः ||७४ || ३४३ ।। इति ।
आज्ञाया भगवद्वचनस्य पदे पदे हृदयेऽनुस्मृतिः कार्या भवगद्वचनानुस्मरणस्य भगवत्स्मरणरूपत्वेन महागुणत्वात्, यदुक्तम्— अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः || १९७॥ [ षोड० २।१४] इति । तथासमशत्रु मित्रता ॥ ७५ ॥ ३४४ ।। इति । शत्रौ मित्रे च समानपरिणामता, एको हि तत्र निर्भर्त्सनादिभिरन्यस्तु स्तुति-वन्दनादिभिः स्वचित्तसंतोषं घटयन्तौ मां निमित्तमात्रमवलम्ब्य प्रवृत्तौ द्वावपि न तु मत्कार्यं किञ्चनेति, ततः कोऽनयोरूनोऽधिको वा ममेति भावनया ॥ ७५ ॥ तथापरीषहजयः ||७६ || ३४५ ॥ इति ।
१. तयं च न ] ॥
Jain Education International
For Private & Personal Use Only
पञ्चमोऽध्यायः
११४
www.jainelibrary.org