SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ T सवृत्तिके धर्मबिन्दौ ११३ Jain Education International कायो न केवलमयं परितापनीयो मिष्टै रसैर्बहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन वश्यानि येन च तदाचरितं जिनानाम् || १९४|| [ ]//६२// तथा परानुग्रहक्रिया || ६३ ||३३२|| इति । परेषां स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितया अनुग्रहकरणं ज्ञानाद्युपकारसंपादनमिति ॥६३॥ तथागुणदोषनिरूपणम् ||६४|| ३३३ || इति । सर्वत्र विहारादौ कर्त्तव्ये गुणदोषयोर्निरूपणं कार्यम् ॥ ६४॥ तथा बहुगुणे प्रवृत्तिः ||६५ ||३३४|| इति । यद् बहुगुणम् उपलक्षणत्वात् केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्त्तितव्यम्, नान्यथेति ॥ ६५॥ तथाक्षान्तिर्मार्दवमार्जवमलोभता || ६६ || ३३५ || इति । एते क्षान्त्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभूताः साधुधर्ममूलभूमिकास्वरूपाः नित्यं कार्या इति ||६६|| अतएव क्रोधाद्यनुदयः ||६७ | | ३३६ ॥ इति । क्रोधादीनां चतुर्णां कषायाणामनुदयो मूलत एवानुत्थानम् ||६७|| तथा वैफल्यकरणम् ॥६८॥ ३३७ ॥ इति । वैफल्यस्य विफलभावस्य कथञ्चिदुदयप्राप्तानामपि क्रोधादीनां करणम्, क्रोधादीनामुदये यच्चिन्तितं कार्यं तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः एवं च कृते पूर्वोक्ताः क्षान्त्यादय आसेविता भवन्ति ॥६८॥ क्रोधाद्यनुदयार्थिना च यत् कार्यं तदाहविपाकचिन्ता || ६९ | | ३३८|| इति । विपाकस्य क्रोधादिकषायफलस्य चिन्ता विमर्शो विधेय:, यथा क्रोधात् प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात् प्रत्ययहानिं सर्वगुणविनाशनं लोभात् || १९५ // [प्रशम. २५ ] इति ॥६९॥ तथा For Private & Personal Use Only पञ्चमोऽध्यायः ११३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy