SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ सर्वत्र पीठफलकादौ नित्यवासोपयोगिनि अन्यस्मिंश्चाममत्वम् अममीकार इति ॥५७।। तथा निदानपरिहारः ॥५८॥३२७।। इति । नितरां दीयते लूयते सम्यग्दर्शनप्रपञ्चबहलमूलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धबन्धो विहितावदातदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलव्यसनव्यालकुलशिवालयशर्मफलोल्बणो धर्मकल्पतरूरनेन सुरर्द्धयाद्याशंसनपरिणामपरशुनेति निदानं तस्य परिहारः, अत्यन्तदारुणपरिणामत्वात् तस्य, यथोक्तम् पञ्चमोऽध्यायः य: पालयित्वा चरणं विशुद्ध करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्षं स नन्दनं भस्मयते वराकः ॥१८८॥ [ ]इति ।।५८॥ तर्हि किं कर्त्तव्यमित्याह विहितमिति प्रवृत्तिः ॥५९॥३२८॥ इति । विहितं कर्तव्यतया भगवता निरूपितमेतदिति एवं सर्वत्र धर्मकार्ये प्रवृत्तिः ॥५९।। तथा विधिना स्वाध्याययोगः ॥६०||३२९।। इति । विधिना काल-विनयाद्याराधनरूपेण स्वाध्यायस्य वाचनादेर्योगो व्यापारणमिति ॥६०।। तथा आवश्यकापरिहाणिः ॥६॥३३०।। इति । आवश्यकानां स्वकाले नियमात् कर्त्तव्यविशेषाणां प्रत्युपेक्षणादीनां अपरिहाणि: अभ्रंशः, इयं च प्रधानं साधुलिङ्गम्, तथा च दशवकालिकनियुक्ति: संवेगो निव्वेओ विसयविवेगो सुसीलसंसणी । आराहणा तवो नाणदंसणचरित्तविणओ य ॥१९॥ खंती य मद्दवऽज्जव विमुत्तयाऽदीणया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाई ॥१९३।। [दश.नि. ३४८-३४९] तथा यथाशक्ति तप:सेवनम् ॥६२॥३३१।। इति । यथाशक्ति तपस: अनशनादेः सेवनम् आचरणम्, यथोक्तम् Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy